SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ जैनकुमारसंभवं [द्वितीयः प्रदीप १ तेजोमण्डल ५ चित्रकारिसुरभिपुष्प ६ विचित्रखाद्यभोज्य ७ मणिभूषण ८ निश्रेणिसोपानकलितविविधध३ वलगृहादिक ९ प्रधानवस्त्राणि १० एतैः पूर्णाः ये दशविधकल्पवृक्षास्तैः सुरद्रुमैर्मनीषितार्थक्रियया वाञ्छितार्थकरणेन हे भुवनेश ! द्वितीयभवे कुरुषु उत्तरकुरुषु युग्मितां युगलित्वं ६ अवाप्ते प्राप्ते सति त्वयि विषये किङ्करायितं किङ्करवदाचरितम् । किंलक्षणैः सुरद्रुमैः ? उत्प्रेक्षते प्राग्जननापवर्जनैः पूर्वजन्मदानैर्जितैरिव ॥ ५६ ॥ ९ सधर्म सौधर्मसुपर्वतां ततो ___ऽधिगत्य नित्यं स्थितिशालिनस्तव । सुराङ्गनाकोटिकटाक्षलक्ष्यता१२ . जुषोऽपि न धैर्यतनुत्रमत्रुटत् ॥ ५७ ॥ सधर्म० हे सधर्म सह धर्मेण वर्तते इति सधर्मः। ततस्तस्मात् युगलित्वतः सौधर्मदेवत्वं अधिगत्य प्राप्य तव धैर्यतनुत्रं १५धैर्यजगरं (कवचं) न अत्रुटत, नैव त्रुटितम् । किंविशिष्टस्य तव नित्यं निरंतरं स्थितिमर्यादा तया शालिनः शोभमानस्य । पुनः किंविशिष्टस्य ? सुराङ्गनाकोटिकटाक्षलक्ष्यता१८ जुषोपि देवाङ्गनाकोटीनां कटाक्षाः तेषां लक्ष्यतां वेध्यतां सेवमानस्याऽपि ॥ ५७ ॥ महाबलक्ष्मापभवे यथार्थकी__ चकर्थ बोधैकबलानिजाभिधाम् । अखर्वचार्वाकवचांसि चूर्णय२३ नयोधनानक्षरकोटकुट्टने ॥ ५८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy