SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ सर्गः] टीकया सहितम् कोऽर्थः ? भरतक्षेत्रेण परमदैवतं भगवन्तं अवाप्य प्राप्य नृणां मनुष्याणां लोकानां पापभूतनिग्रहे षट्खण्डरूपषट्कोणकयन्त्रसूत्रणा समाश्रितेति भावः ॥ ५४ ॥ तपोधनेभ्यश्चरता वनाध्वना, धनस्य भावे भवता धनीयता । अदीयताज्यं यदनेन कौतुकं, तवैव शिश्राय वृषो वृषध्वज ॥ ५५ ॥ तपो० हे नाथ ! भवता त्वया वनाध्वना वनमार्गेण चरता धनस्य भावे धनसार्थवाहभावे, तपोधनेभ्यो यतिभ्यो यदाज्यं ९ घृतं अदीयत दत्तम् । किं कुर्वता भवता ? धनीयता धनमिच्छता । तत् अनेनाज्येन हे वृषध्वज वृषो वृषभो लाञ्छनं यस्य स तस्य संबोधनम् । कौतुकं तवैव वृषो वृषभः पुण्यं वा, १२ शिश्राय ववृधे । कोऽर्थः ? पात्रे दत्तेन धनेन धनसार्थवाहेन महत् पुण्यमर्जितं । उक्तं च "दानेन धन्यो धनसार्थवाहः, कर्मोत्तमं तीर्थकरस्य नाम । बबन्ध कर्मक्षयहेतुभूतं, दानं हि १५ कल्याणकरं नराणाम्" ॥ १॥ ५५ ॥ भवे द्वितीये भुवनेश युग्मितां, कुरुष्ववाप्ते त्वयि किङ्करायितम् । १८ मनीषितार्थक्रियया सुरद्रुमै र्जितैरिव प्राग्जननापवर्जनैः॥५६॥ भवे० मत्तंगया य १ भिंगा २ तुडियंगा ३ दीव ४ जोइ ५२१ चित्तंगा ६ । चित्तरसा ७ मणियंगा ८ गेहागारा ९ अ णियणाय १०॥१॥ सरसमद्य १ मणिभाजन २ वाद्य ३ रत्न-२३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy