________________
७४
जैनकुमारसंभवं [द्वितीयः अनङ्गरूपोऽप्यखिलाङ्गसुन्दरो,
___ रवेरदभ्रांशुभरोऽपि तारकः । ३ अपि क्षमाभृन्न सकूटतां वह- .
स्थपारिजातोऽपि सुरद्रुमायसे ॥ ५३ ॥ अन० हे नाथ! त्वं अनङ्गरूपोऽपि अखि लाङ्गसुन्दरः, ६ सर्वाङ्गसुन्दरो वर्तसे, योऽनङ्गरूपः स्यात् सो अखिलाङ्गसुन्दरः कथं स्यात् ? अत्र विरोधपरिहारमाह अनङ्गरूपः कन्दर्परूपः, अखिलाङ्गसुन्दरश्च । हे नाथ ! त्वं रवेरदभ्रांशुभरोऽपि सूर्याद९धिकतेजःपटलोऽपि तारकोऽपि । यो रवेरदभ्रांशुभरः स्यात् स तारकः कथम् ? तारयतीति तारकः । त्वं क्षमाभृदपि पर्व
तोऽपि सकूटतां सशिखरतां न वहसि । यः क्षमाभृत् स्यात् , स १२ सकूटतां किं न वहति ? क्षमां बिभर्तीति क्षमाभृत् । सकूटतां
सालीकतां न वहसि । त्वं अपारिजातोऽपि सुरद्रुमायसे । योऽपारिजातः स्यात् स सुरद्रुमवत् कथमाचरति ? अपगतं अरिजातं १५ यस्य स अपारिजातः ॥ ५३ ॥
इदं हि षट्खण्डमवाप्य भारतं,
भवन्तमूस्खलमेकदैवतम् । १८ बिभर्ति षट्कोणकयंत्रसूत्रणां,
नृणां स्फुरत्पातकभूतनिग्रहे ॥ ५४॥ इदं हि० हे नाथ ! हि निश्चितं इदं षट्खण्डभारतं २१ भरतक्षेत्रं, कर्तृपदं । ऊर्जवलं बलवन्तं एकदैवतं भगवन्तं
अवाप्य प्राप्य, नृणां मनुष्याणां स्फुरत्पातकभूतनिग्रहे, २३ प्रसरत्पापरूपभूतस्य निर्घाटने षट्कोणकयन्त्रसूत्रणां बिभर्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org