SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ सर्गः] टीकया सहितम् बृहद्धैर्य इयं मतिर्यत् जडाशया मूर्खाभिप्राया सती तक्रमणं तेषां गुणानां क्रमणं आक्रमणं . कदाशया ईहते वाञ्छति । यदि जलस्थिता मच्छी जलबहिर्गतं वस्तु ग्रहीतुमिच्छति ३ तदा सा मूखैवेति भावः ॥५०॥ मनोऽणु धत्तु न गुणांस्तवाखिलान् न तद्धृतान्वक्तुमलं वचोऽपि मे । स्तुतेर्वरं मौनमतो न मन्यते, परं रसज्ञैव गुणामृतार्थिनी ॥ ५१॥ मनो० हे नाथ ! मे मम मनस्तव अखिलान् समस्तान् ९ गुणान् धतुं नालं न समर्थः। किंलक्षणं मनः ? अणु सूक्ष्मम् । तद्धृतान् मनसा धृतान् गुणान् मे मम वचोपि वक्तुं नालं अतः कारणात् स्तुतेर्मोनं वरं भव्यम् । परं रसज्ञैव जिद्वैव च न१२ मन्यते, किंलक्षणा रसज्ञा : गुणामृतार्थिनी, गुणा औदार्यज्ञानाद्यास्तानेवामृतं अर्थयति वाञ्छयतीति गुणामृतार्थिनी, ॥५१॥ सुरद्रुमाद्यामुपमा स्मरन्ति यां, १५ जनाः स्तुतौ ते भुवनातिशायिनः । अवैमि तां न्यक्कृतिमेव वस्तुत स्तथापि भक्तिमुखरीकरोति माम् ॥ ५२ ॥ १८ सुर० हे नाथ! जना लोकाः ते तव स्तुतौ सुरद्रुमाद्यां कल्पवृक्षाद्यां, यामुपमां सरन्ति कथयन्ति । किंविशिष्टस्य ते तव ? भुवनातिशायिनस्त्रिभुवनेऽधिकस्य । अहं तां स्तुति २१ वस्तुतः परमार्थतो न्यकृति निंदामेव अवैमि जानामि, तथापि भक्तिर्मा मुखरीकरोति मम वाचालत्वं कुरुत इत्यर्थः ।।५२ ॥ २३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy