SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ जैनकुमारसंभव [द्वितीयः महामुनीनामपि गीरगोचरा खिलवरूपास्तसमस्तदूषण । जयादिदेव त्वमसत्तमस्तम प्रभाप्रभावाल्पितभानुवैभव ॥४९॥ महा० मन्वते त्रिकालावस्था इति मुनयः । महान्तो ये मुनयस्तेषां महामुनीनामपि गिरां वाणीनां अगोचरं अखिलं समस्तं खरूपं यस्य तस्य सम्बोधनं क्रियते हे महामुनी । हे अस्तसमस्तदूषण अस्तानि समस्तानि दूषणानि येन स तस्य ९ संबोधनम् । हे आदिदेव ! हे असत्तमस्तमप्रभाप्रभावाल्पितभानुवैभव ! असत् अविद्यमानं तमः पापं यस्याः सा असत्तमा, प्रकृष्टा असत्तमा असत्तमस्तमा, अतीव निःपापा । असत्तम१२ स्तमायाः प्रभायाः प्रभावेण अल्पितं अल्पीकृतं भानुवैभवं सूर्यप्रभुत्वं येन, एवंविधस्त्वं जय सर्वोत्कर्षेण वर्तख । जयः परैरनभिभूयमानता प्रतापवृद्धिश्च इत्यर्थः ॥ ४९ ॥ गुणास्तवाकोदधिपारवर्तिनो, ___ मतिः पुनस्तच्छफरीव मामकी । अहो महाधा_मियं यदीहते, जडाशया तत्क्रमणं कदाशया ॥ ५० ॥ गुणा० हे नाथ ! तव गुणा अङ्कोदधेः अङ्कसमुद्रस्य पारवर्तिनः पारगामिनो वर्तन्ते । मामकी मतिः पुनः तच्छ२१ फरीव तस्य अङ्कोदधेर्मच्छीवद्वते । युष्मदस्मदोऽजीनौ यौष्माकास्माकं चैकत्वे तु तवकममकम् ( ) इति २३ पदाम्बीप्रत्यये मामकी स्यात् । अहो इत्याश्चर्ये महाधार्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy