________________
७८
जैनकुमारसंभवं
[ द्वितीयः
1
स वज्र ० हे नाथ ! स भवान् वज्रजङ्घो नृपतिर्भवन् सन् यत् अङ्गजात् पुत्रात् हालाहलधूमपायितां विषसक्तधूमपानत्वं ३ अवाप प्राप्तः । ततः तस्मात् कारणात् अधुनापि तव मनो अङ्गजतः कन्दर्पात् विश्वासबहिर्मुखं वर्तते । कोऽर्थः ? अङ्गजशब्देन कन्दर्पः पुत्रोऽपि भण्यते, भवता वज्रजङ्घनृपभवे ६ अङ्गजान्मरणं प्रापि, पश्चात्तीर्थकृद्भवे भगवन्मनो अङ्गजस्योपरि विश्वासरहितं जातमिति भावः ॥ ६० ॥ उपास्य युग्मित्वमथाद्यकल्पगसुधाशनीभूय भिषग् भवानभूत् । मुनेः किलासं व्यपनीय यः स्वकं, कलाविलासं फलितं व्यलोकत ॥ ६१ ॥ १२ उपास्य हे नाथ ! अथानन्तरं भवान् युग्मित्वं उपास्य संसेव्य, आद्यकल्पगसुधाशनीभूय प्रथमदेवलोके देवो भूत्वा, भिषग् वैद्योऽभूत् । यो भिषग् वैद्यो मुनेः किलासं १५ कुष्ठरोगं व्यपनीय स्फेटयित्वा स्वकं आत्मीयं कलाविलासं कलासमूहं फलितं सफलं व्यलोकत अपश्यत् ॥ ६१ ॥
१८
अथेयिवानच्युतनाकिधाम चेत् अवातरस्तत्किमिह प्रभोऽथवा । लयं लभन्ते विबुधा हि नाभिधागुणेषु यत्ते परमार्थदृष्टयः ॥ ६२ ॥
अथे० अथानन्तरं हे प्रभो ! चेत् यदि त्वं अच्युतनाकिधाम अच्युतदेवलोकं ईयिवान् गतः । तत् इह पृथिव्यां किं अवातरः २३ अवतीर्णः । अथवा विबुधा देवा विद्वांसो वा अभिधा नाम
२१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org