________________
सर्गः] टीकया सहितम् पक्षक्षितिवंशोच्छेदः तज्जातपातकैर्विमुक्तः स्यात् , यथा पाण्डवादयः शत्रुजयतीर्थे सिद्धा इति भावः ॥ ४२ ॥
अथ प्रभोर्जन्मभुवं पुरन्दरो___ऽसरच्छरचन्द्रिकयेव दृष्टया । यया चिरादुत्कलिकाभिराकुलं, .
प्रसादमासादयदस्य हृत्सरः ॥४३॥ ६ अथ० अथानन्तरं पुरंदर इन्द्रः प्रभोर्जिनस्य जन्मभुवं असरत् अगमत्, यया जन्मभुवा दृष्टया अस्य इन्द्रस्य हृत्सरः हृदयरूपसरोवरं प्रसादं प्रसन्नत्वं आसादयत् प्राप्नोति स्म । कया९ इव ? शरचन्द्रिकया इव । यथा शरचन्द्रिकया शारदज्योत्स्नया सरः सरोवरं प्रसादं आसादयति । किंलक्षणं हृत्सरः ? चिराचिरकालादुत्कलिकाभिः उत्कण्ठाभिः, पक्षे लहरीभिराकुलं १२ व्याप्तम् ॥ ४३ ॥
स तत्र मन्दारमणीवकस्रवन्
मधुच्छटासौरभभाजने वने । अमुक्तपूर्वाचलहेलिलीलया,
निविष्टमष्टापदसिंह विष्टरे ॥४४॥ दृशोरशोपामृतसत्रमंगिना
मनंगनाट्योचितमाश्रितं वयः। वयस्यतापन्नसुपर्वसङ्गतं,
रसं गतं तत्कृतनर्मकर्मसु ॥४५॥ शिरःस्फुरच्छत्रमखण्डमण्डन
द्युसद्वधूधूनितचारुचामरम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org