SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ७० जैनकुमारसंभवं विशारदैर्वदितपादमादरादरातिरद्रेर्जगदीशमैक्षत ॥ ४६ ॥ ॥ त्रिभिर्विशेषकम् ॥ Jain Education International [ द्वितीयः स० स अद्रेररातिः पर्वतस्यारिरिन्द्रस्तत्र वने जगदीशं श्रीयुगादिनाथं ऐक्षत पश्यति स्म । किंलक्षणे वने ? मन्दार६ मणीवकस्रवन्मधुच्छटा सौरभ भाजने, मन्दराणां मणीवकानि पुष्पाणि तेभ्यः स्रवन्मधुमकरन्दरस छटाभिर्यत्सौरभं सौगन्ध्यं तस्य भाजने स्थाने । अन्यानि सर्वाणि विशेषणानि जगदीश - ९ सत्कानि, किंविशिष्टं जगदीशम् ? अमुक्तपूर्वाचल हेलिलीलया अमुक्तोऽत्यक्तः पूर्वाचल उदयाचलो येन स एवंविधो हेलि सूर्यः तस्य लीलया अष्टापदसिंह विष्टरे सुवर्णसिंहासने १२ निविष्टं उपविष्टम् ॥ ४४ ॥ पुनः किंविशिष्टं जगदीशम् ? अङ्गिनां प्राणिनां दृशोरशोषामृतसत्रं शोषरहितामृतसत्रागारम् । पुनः किंविशिष्टं जगदीशम् ? अनंगनाट्योचितं कन्दर्पसत्क - १५ नाटक योग्यं वयो यौवनमाश्रितम्, पुनः किंविशिष्टम् ? वयस्यतापन्नसुपर्वसंगतं मित्रत्वं प्राप्ताः सुपर्वणो देवास्तैः सह संगत मिलितम् । पुनः किंविशिष्टम् ? तत्कृतनर्मकर्मसु तैः सुरैः १८ कृतेषु नर्मकर्मसु क्रीडाकर्तव्येषु रसं गतं रसं - प्राप्तम् ॥ ४५ ॥ पुनः किंविशिष्टम् शिरः स्फुरच्छत्रं शीर्षे प्रसरत् श्वेतातपत्रम् । पुनः किंविशिष्टम् ? अखंडमण्डनघुसद्वधूधूनितचारुचामरम् अखंडानि मण्डनानि मुकुटकुण्डलहारार्धहारकटककेयूराद्याभर२२ णानि यासां ताः ग्रुसद्वध्वो देवांगनास्ताभिश्चालितमनोज्ञचा For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy