________________
६८
जैनकुमारसंभवं
[ द्वितीयः
इमाः ० रविः सूर्यः क्षपामुखे रात्रिप्रारंभे प्रवसन् परद्वीपं गच्छन् खं वसु-आत्मीयं तेजो द्रव्यं वा, इतिकारणात् यदीय३ गुंजासु न्यधात् । सर्व उत्तमस्यैव हस्ते निजद्रव्यं समर्पयति, अत आह इतीति किम् ? इमा गुंजाः सुवर्णैः कांचनैः उत्तमजातीयैर्वा तुलिताः सन्ति सदृशी कृता वा । अथ रवितेजोनिवेशफलमाह ६ अन्यथा ता गुंजाः, सहिता मिलिताः सत्यः, हरीणां वानराणां हिमव्यथां किं हरन्ति ? कोऽर्थः ? सूर्येण सन्ध्यासमये स्वीयं तेजो गुंजासु क्षिप्तम्, तेन हेतुना वानरा एकत्र संभूय गुंजा९ भिस्तापयन्ति तेषां च इत्थं शीतं यात्येवेति भावः ॥ ४१ ॥
2
जिनेशितुर्जन्मभुवः समीपगं,
नगं तमाधाय मुदा दृगध्वगम् ।
१२
सगोत्रपक्षक्षतिजातपातकै
र्विमुक्तमात्मानममंस्त वासवः ॥ ४२ ॥
जिने ० स वासव इन्द्रः गोत्रपक्षक्षतिजातपातकैः पर्वतानां १५ पक्षच्छेदनेन समुत्पन्नैः पापैरात्मानं विमुक्तं अमंस्त मन्यते स्म । किं कृत्वा ? जिनेशितुः श्री ऋषभदेवस्य जन्मभुवः समीपस्थं तं पूर्ववर्णितं नगं अष्टापदपर्वतं मुदा हर्षेण दृगध्वगं १८ दृष्टिमार्गगोचरं आधाय कृत्वा । कोऽर्थः ? पुरा पर्वताः पक्षाभ्यामुत्पत्य एवाहर्निशं ग्रामनगराद्युपरि पतंत आसन्, इतश्वेन्द्रेण वज्रेण पर्वतपक्षा रिछन्ना इति हि लोकरूढिः । इन्द्रो जिनस्य जन्मभूमिप्रत्यासन्नं अष्टापदाचलं दृष्ट्वा पर्वतपक्षच्छेदन पात२२ कात् छुटितः । अन्योऽपि महातीर्थं दृष्ट्वा सगोत्राणां खगोत्रिणां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org