SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ सर्गः] टीकया सहितम् - तरु० यत्तारशिला यस्य पर्वतस्य रौप्यशिला विलासिनां भोगिनां रतिक्षणालंबितरोषमानिनीस्मयग्रहप्रन्थिभिदे भोगावसरे कृतरोषस्त्रीणां अहंकाररूपग्रन्थिभेदनाय सहायतां सहायं ३ व्यधत्त अकरोत् । किंलक्षणा तारशिला ? तरुक्षरत्सूनमृदूत्तरच्छदा तरोवृक्षात् क्षरन्ति सूनानि पुष्पाणि तैम॒दुः श्लक्ष्ण उत्तरच्छद उत्तरपटो यत्र सा, कोऽर्थः ? सपुष्पशय्यातुल्यां शिलां दृष्ट्वा खयमेवाभिमानो वनिताया विलीनः, अतः, शिलया पत्युः साहाय्यं कृतमेवेति भावः ॥ ३९ ॥ यदुच्चवृक्षाग्रनिवासिनी फला वलीमविन्दन्नुपलैः पुलिन्द्रकः। कपीनदःस्थानभिवृष्य तान् सुखं, ___ समश्नुते तैः प्रतिशस्त्रिता रुषा ॥४०॥ १२ यदुच्च० पुलिन्द्रको यदुच्चवृक्षाग्रनिवासिनीं यस्य पर्वतस्य उच्चा ये वृक्षास्तेषां शृङ्गाग्रे शिखराग्रे निवासिनी फलावली फलश्रेणी अविन्दन् अलभमानोऽपि सुखं समश्नुते प्रामोति । किं १५ कृत्वा ? अदःस्थान् अमीषु वृक्षेषु स्थितान् कपीन् वानरान् . उपलैः पाषाणैः अभिवृष्य सन्मुखं आहत्य । किंलक्षणां फलावली. फलश्रेणी अविन्दन् ? तैः कपिभिः रुषा रोषेण प्रतिशस्त्रितां १८ प्रतिशस्त्रीकृताम् ॥ ४०॥ इमाः सुवर्णैस्तुलिता इति क्षपा मुखे रविः खं प्रवसन् वसु न्यधात् । यदीयगुंजासु किमन्यथा हिमव्यथां हरीणां सहिता हरन्ति ताः॥४१॥ २३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy