SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ सर्ग: ] टीका सहितम् ६५ यदौ ० तमखिनी रात्रिछनच्छलात् किम् ? स्थितेर्मर्यादायाः कृते मर्यादार्थं कलानिधिं चन्द्रमसं दयितं भर्तारं गच्छति, किं कृत्वा ? ज्वलिताभिर्दीप्ताभिः सपत्नीभिः, यदौष- ३ घीभिः यस्य पर्वतस्योषधीभिः । सर्वतः अर्दितं पीडितं तमोऽन्धकारं अवेक्ष्य दृष्ट्ा । कोऽर्थः ? औषधीनां रात्रेश्व चन्द्रः पतिः, रात्रेश्च अपत्यं अन्धकारम् । ज्वलिताभिरौषधीभिस्तमः सर्वतः ६ पीड्यमानं दृष्ट्वा उपालम्भदानाय निजं कलानिधिं पतिं गता सा अद्यापि लाञ्छनच्छलेन चन्द्रे दृश्यते इति भावः ॥ ३५ ॥ पतन्ति ये बालरवेः प्रगे करा यदुल्लसद्वैरिकधातुसानुषु । क्रियेत तैरेव विसृत्य चापला दिलाखिला गैरिकरंगिणी न किम् ॥ ३६ ॥ १२ पतन्ति प्रगे प्रभाते ये बालरवेर्बालार्कस्य कराः किरणाः यदुल्लसद्वैरिकधातुसानुषु, यस्य पर्वतस्य उल्लसद्वैरिकधातूनां सानुषु शिखरेषु पतन्ति, तैरेव चापलात् चपलभावाद् विसृत्य १५ विस्तारं प्राप्य, अखिला समस्ता, इला पृथ्वी, किं गैरिकरंगिणी गैरिकरंगभाक्, किं न क्रियते, अपितु क्रियत एव । कोऽर्थः ? बालः प्रायः क्रीडासक्त इति स्थिरभावं त्यक्त्वा बालार्ककिरणैः १८ समस्तापि पृथ्वी रक्ता कृता इति भावः । अत्र संशयाऽलङ्कारो ज्ञेयः ॥ ३६ ॥ यदीयगारुत्मतमित्तिजन्मभिः, करैरवंच्यन्त तथा हरित्प्रभैः । ० कु० ५ Jain Education International जै० For Private & Personal Use Only २२ www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy