SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ जैनकुमारसंभवं [द्वितीयः निवासभूमी वासस्थानं अनवाप्य अप्राप्य । किंविशिष्टेषु कन्दरेषु ? स्फुटाः प्रकटाः स्फाटिकभित्तीनां मानवः किरणा ३ यत्र तानि स्फुटस्फाटिकभित्तिभानूनि तेषु । कोऽर्थः ! अत्र पर्वतेषु अन्धकारं मणिसत्कोहयोताग्रे प्रवेशं न लभते, पश्चात् छायामिषेण वृक्षाणां तले स्थितमिति भावः ॥ ३३ ॥ प्रतिक्षपं चन्द्रमरीचिरेचिता मृतांशुकान्तामृतपूरजीवना। वनावली यत्र न जातु शीतगोः, पिधानमैच्छन्मलिनच्छविं धनम् ॥ ३४॥. प्रतिक्षिपं० यत्र यस्मिन् पर्वते वनावली जातु कदाचिदपि मलिनच्छविं कृष्णकान्ति मेघं न ऐच्छत् न वांछति स्म। १२ किंलक्षणं धनम् ? शीतगोश्चन्द्रस्य पिधानमाच्छादनं, पक्षे शीता शीतला गौर्वाणी यस्य स शीतगुस्तस्य पिधानमपह्नवकरणात् य एवंविधो मलिनच्छविश्व स्यात् स सर्वस्याप्यनिष्ट एव स्यादिति । १५ अथ मेघं विना वनावली कथं जीविष्यतीत्याह-किंलक्षणा वनावली ? प्रतिक्षप क्षपां २ रात्रि २ प्रति चन्द्रमरीचिरेचिताः चन्द्रकिरणैः श्राविता ये अमृतांशुकान्ताश्चन्द्रकान्तमणयः, १८ तेभ्यो योऽमृतपूरः स एव जीवनं यस्याः सा चन्द्रमरीचिरेचितामृतांशुकान्तामृतजीवना ॥ ३४ ॥ यदौषधीभिर्वलिताभिरर्दित, तमासपत्नीभिरवेक्ष्य सर्वतः। तमखिनी गच्छति लांछनच्छलात्, कलानिधिं किं दयितं स्थितेः कृते ॥ ३५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy