________________
सर्गः] टीकया सहितम्
इहापि वर्ष० पुरंदर इन्द्र इहापि अस्मिन् जंबूद्वीपमध्येऽपि भारतं वर्ष भरतक्षेत्रमवाप्य तं हर्षभरं प्रमोदसमूहं बभार धरति स्म । अद्भुतं आश्चर्य यो हर्षभरः अलं अत्यर्थं धनवर्त्मनः३ घनवा आकाशस्तस्य लंघने यः श्रमः तं श्रमं शान्ति प्रापयति म । किंविशिष्टो हर्षभरः ? घनोदयः घनः प्रचुर उदय उत्पत्तिर्यस्य सः। कोऽर्थः? अन्यो भरो भारः श्रमं उत्पादयति ६ अयं हर्षभरस्तु श्रमं शमयति स्मेत्याश्चर्यम् ॥ २८॥
विनीलरोमालियुजो वनीघनो - गभीरनामेहुनिम्नपल्वलः। बभूव शच्या अपि मध्यदेशतोऽ
स्य मध्यदेशः स्फुटमीक्षितो मुदे ॥ २९॥ विनीलरोमालि० यत्र जिनचयर्धचक्रिणां जन्म स्यात्र स भरतसत्को मध्यदेशः शच्या अपि मध्यदेशतः उदरप्रदेशात् अधिकं अस्य इन्द्रस्य मुदे हर्षाय बभूव, हेतुमाह-किविशिष्टो मध्यदेशः ? स्फुटं प्रकटं ईक्षितो दृष्टः, शचीमध्यदेशस्तु १५ नैवमिति हर्षे विशेषः । किंलक्षणात् शच्या मध्यदेशतः ? विनीलरोमालियुजः । किंलक्षणो मध्यदेशः ? बहुनिम्नपल्वलः बहूनि निम्नानि गभीराणि पल्वलानि अखातसरांसि यत्र स १८ बहुनिम्नपल्वलः । यद्यपि देवानां शरीरे नखरोमादीनि न स्युस्तथापि उत्तरवैक्रियशरीरे घटन्ते इति विनीलरोमालि. युजो न चर्च्यम् ॥ २९॥
- २१ ददर्श दूरादथ दीर्घदन्तकं,
घनालिमाद्यत्कटकान्तमुन्नतम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org