________________
१५
६२
१८
प्रलंबकक्षातिनीरनिर्झरं, सुरेश्वरोऽष्टापदमद्रिकुंजरम् ॥ ३० ॥
३ ददर्श दूरादथ० अथानन्तरं सुरेश्वर इन्द्रः अष्टापदं अद्रिकुंजरं पर्वतेषु कुञ्जरं हस्तिनं वा दूराद्ददर्श । किंलक्षणं अष्टापदम् ? दीर्घदन्तकं दीर्घा दन्तका बहिर्निर्गताः प्रदेशा यस्य ६ तम् । कुञ्जरपक्षे दीर्घौ दन्तौ दन्तमुशले यस्य स दीर्घदन्त कस्तम् । खार्थे कप्रत्ययः । पुनः किंविशिष्टं अष्टापदम् ? घनालिमाद्यत्क - टकान्तम् घनालिभिर्घनानां मेघानां आलिभिः श्रेणिभिर्माद्यन्तः ९ स्थूलीभवन्तः, कटकानां पर्वतमध्यभागानां अन्तरा यस्य तम्, कुंजरपक्षे घना बहवोऽलयो भ्रमरा यत्र ते घनालिनी माद्यन्ती मदं किरन्ती कटे कपोलौ ताभ्यां कान्तम् । पुनः किंविशिष्टम् ? १२ उन्नतमुच्चैस्तरम् । पुनः किंविशिष्टम् ? प्रलंबकक्षा यितनीर निर्झरं प्रलंबा कक्षा वस्त्रा तद्वदाचरितानि नीरस्य निर्झराणि यत्र तं प्रलम्बकक्षायितनीरनिर्झरम् ॥ ३० ॥
शिरो ममात्प्रतिमानविंशतिचतुर्युताध्यास्य वतंसयिष्यति । इतिप्रमोदानुगुणं तृणध्वज
व्रजस्य दम्भात्पुलकं बभार यः ॥ ३१ ॥ शिरो ममात्प्रतिमानविंशति० योऽष्टापदः तृणध्वजनजस्य तृणध्वजानां व्रजः समूहः तस्य दम्भात् मिषात् पुलकं रोमाञ्चं २१ बभार । किंलक्षणं पुलकम्? इतिप्रमोदानुगुणं, इति अमुना प्रकारेण यः प्रमोदो हर्षः तस्य अनुगुणं योग्यम् । कः प्रमोद २३ इत्याह- चतुर्युतार्ह त्प्रतिमानविंशतिरर्हतां प्रतिमानानि विम्बानि
जैनकुमारसंभवं
Jain Education International
[ द्वितीयः
For Private & Personal Use Only
www.jainelibrary.org