SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ६० जैनकुमारसंभवं [द्वितीयः वा यस्य स खवर्ण एवंविधो योऽबुदो मेघः तस्य गर्जितेन गर्जारवच्छलेन तं इन्द्रं द्रुतं शीघ्रं व्रजंतं गच्छन्तं सतं, किमु ३ इति व्यजिज्ञपत् विज्ञापयति स्म । विज्ञप्तिः खजनेन कार्यत इति व्यङ्ग्यम्, इति इति किम् ? हे दिवःपते! अहं द्यौरस्मि तव साम्प्रतं अधुना मामुपेत्य मम समीपमागत्य मोक्तुं न सांप्रतं न ६ युक्तम् । कोऽर्थः? द्यौशब्दः स्त्रीलिङ्गः खर्गाऽऽकाशवाची, अतो भङ्ग्याह त्वं दिवःपतिरहं तु द्यौरेतावता त्वं खामी अहं च भार्या । अतः कारणात् तव मम समीपमागतस्येत्थं ९ मामुपेक्ष्य गंतुं न युक्तमिति भावः ॥ २६ ॥ पथि प्रथीयस्यपि लंघिते जवा दवाप स द्वीपमथादिमं हरिः। १२ विभाति यो द्वीपसरस्वदुत्करैः, परैः परीतः परिवेषिचन्द्रवत् ॥ २७॥ पथि प्रथीयस्यपि० अथानन्तरं स हरिरिन्द्रः जवात् वेगात् १५ प्रथीयस्यपि प्रचुरेऽपि पथि मार्गे लविते सति आदिमं द्वीप अवाप प्राप्तः, यो द्वीपः परैरन्यैीपसरखदुत्करैः द्वीपानां सरखतां समुद्राणां च उत्करैः समूहैः परीतो वेष्टितः सन् १८ परिवेषिचन्द्रवत् परिधियुक्तचन्द्रवद्विभाति शोभत इति, द्वीपशब्दः पुंक्लीवलिंगो ज्ञेयः ॥ २७ ॥ इहापि वर्ष समवाप्य भारतं, बभार तं हर्षभरं पुरन्दरः। घनोदयोऽलं धनवमलंघन श्रमं शमं प्रापयति स योद्भुतम् ॥ २८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy