SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ सर्ग: ] टीकया सहितम् प्रभूतभौमोष्मभयंकरः स्फुरन्महाबलेनांजन भंजनच्छविः । निजानुजाऽभेदधियामुना घनः, पयोधिमध्यान्निरयन्निरैक्ष्यत ॥ २५ ॥ प्रभूतभौमो० अमुना इन्द्रेण घनो मेघः निजानुजा भेदधिया स्वीयलघुभ्रातुर्नारायणस्यैक्यबुद्धया पयोधिमध्यात् समुद्र - ६ मध्यात् निरयन् निर्गच्छन् निरैक्ष्यत दृष्टः । किं लक्षणो घनः ? प्रभूतभौमोष्मभयंकरः प्रभूतस्य प्रचुरस्य भौमोष्मणः भूमिसत्कबाष्पस्य भयंकरः । पुनः किंविशिष्टः घनः ? महाबलेन वायुना ९ स्फुरन् । पुनः किंविशिष्टो घनः ? अंजनभंजनच्छविः कृष्णकान्तिः । नारायणः पुनः किंलक्षणः ? प्रभवः खामिनस्तेषु उत प्रसिद्धो यो भौमो भौमासुरस्तस्य ऊष्मा गर्वस्तस्य भयंकर : १२ उच्छेदकरः, बलेन शरीरसामर्थ्येन बलदेवेन चास्फुरन्महाः प्रसरत्तेजाः, शेषं स्पष्टम्, एवं विशेषणैर्जलदनारायणयोरैक्यम् । यद्यपि जैनमते समुद्रे नारायणः स्वपितीति वक्तुं न युक्तम्, १५ परमत्रापि कविरूढिरेव ज्ञेया, यथा श्रीकल्पे लक्ष्मीवर्णने दिग्गजाभिषेकवर्णनमिति ॥ २५ ॥ दिवः पते द्यौरहमस्मि सांप्रतं, न सांप्रतं मोक्तुमुपेत्य मां तव । इति स्ववर्णाबुदगर्जितेन सा, Jain Education International ५९ द्रुतं व्रजन्तं किमु तं व्यजिज्ञपत् ॥ २६ ॥ दिवः पते धौरहमस्मि सांप्रतं ० स द्यौराकाशः स्ववर्णाबुदगर्जितेन स्वः स्वीयो वर्णः श्यामतालक्षणो जातिविशेषो २३ For Private & Personal Use Only 34 २१ www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy