________________
जैनकुमारसंभवं [द्वितीया स विप्रकीर्णा अवलोकयन्मणी
रणीयसीमप्यविदन्न मुद्भिदम् ॥ २३॥ ३ विलोचनैरू० स इन्द्रः अणीयसीमपि खरपामपि मुभिदं हर्षभेदं न अविदन् न अलभत् । अणुशब्दस्याग्रे ईयन्स प्रत्यये स्त्रीत्वे नलोपे अणीयसी स्यात् । किं कुर्वन् ! वियति ६ आकाशे ऊर्ध्वमुखैर्विलोचनैदृम्भिरुडूर्नक्षत्राणि अवलोकयन् , अधोमुखैलोचनैरतिनिर्मले वार्द्धिजले समुद्रपानीये विप्रकीर्णा विक्षिप्ता मणीः-रुचकस्फटिकलोहिताक्षमरकतप्रभृतिमणिसमू. ९हान् अवलोकयन् । उडुशब्दः स्त्रीनपुंसकलिङ्गो ज्ञेयः, मणिशब्दस्तु पुंस्त्रीलिङ्गो ज्ञेयः ॥ २३ ॥
अविश्रमे वर्त्मनि तस्य यायिनः, १२ - श्रमस्य यः कोऽपि लवोऽजनिष्ट सः। ___ अनोदि दुग्धोदधिशीकरैस्तटा
चलस्खलद्वीचिचयोत्पतिष्णुभिः ॥ २४ ॥ १५ अविश्रमे वर्मनी० तस्य इन्द्रस्य अविश्रमे विश्रामरहिते
वर्मनि मार्गे यायिनो गच्छतः सतः श्रमस्य यः कोऽपि लवोऽजनिष्ट जातः, स श्रमस्य लवः दुग्धोदधिशीकरैः क्षीरसमुद्रस्य १८ जलकणैरनोदि नुद्यते स्म । किंलक्षणैर्दुग्धोदधिशीकरैः ? तटा
चलस्खलद्वीचिचयोत्पतिष्णुभिः तटेषु ये अचलाः पर्वतास्तेषु स्खलन्त्य आस्फालन्त्यो ये वीचयः कल्लोलास्तासां चयात् २१ समूहात् उत्पतिष्णुभिरुत्पतनशीलैः। कोऽर्थः? इन्द्रस्य सार्धराज
प्रमाणं मार्गमतिक्रम्यागच्छतः सतो यः श्रमो जातः स शीतलैः २३क्षीरसमुद्रजलकणैः स्केटित इति भावः ॥ २४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org