________________
सर्गः] टीकया सहितम् विवाहहयें विवाहमण्डपे मणिप्रदीपतां मणिसंबन्धिमाङ्गलिकरूपप्रदीपत्वं किं न अवाप्स्यथः, अपि तु प्राप्स्यथ एवेत्यर्थः । किंलक्षणौ इन्दुभास्करौ? कृतातिथेयौ कृतं आतिथेयं प्राघूर्णत्वं ३ याभ्यां तौ कृतातिथ्यौ । पुनः किंविशिष्टौ ? पथि मार्गे संगतौ मिलितौ ॥२१॥
निमेषविश्लेषिसमग्रदृग्मये,
प्रिये सदा सन्निहितेऽत्र वज्रिणि । कचिन या मुह्यति सा किमायसी,
शचीति तं वीक्ष्य जगुः शशिप्रियाः॥२२॥ ९ निमेषविश्लेष० शशिप्रिया रोहिण्यादयः तं इन्द्रं वीक्ष्य दृष्ट्वेति जगुः परस्परमिति जल्पन्तिम । इतीति किम् ? सा शची इन्द्राणी किं आयसी लोहमयी, या शची, अत्र अस्मिन् प्रिये १२ इन्द्रे भर्तरि सदा संनिहिते समीपस्थे सति कचिन्न मुह्यति मूढत्वं न दधाति । किंलक्षणे इन्द्रे ? वज्रिणि वज्रयुक्ते । पुनः किंविशिष्टे इन्द्रे ? निमेषविश्लेषिसमग्रहग्मये निमेषरहिते १५ समस्तलोचनरूपे । कोऽर्थः ? रोहिण्याद्याः खभर्तारं सौम्यं सोमं दृष्ट्वा सहस्रलोचनैर्विकरालरूपं वज्रयुक्तं च इन्द्रं दृष्ट्वा शच्या एव सर्वसहत्वं प्रशंसति स्म । यद्यपि च जैनानामिन्द्रस्य शरीरे १८ सहस्रलोचनत्वं नोच्यते तथापि काव्यं लोकानुरोधेनैव स्यादिति ॥ २२ ॥
विलोचनैरूर्ध्वमुखैर्वियत्युडू. ___ रधोमुख़र्वाधिजलेऽतिनिर्मले।
२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org