________________
जैनकुमारसंभवं [द्वितीयः च्छया लतामयागारशया वल्लीमयगृहे शेरते इति लतामया। स इन्द्रः अतिवेगतोऽपश्यंस्तान् सुरान् त्रपाजडान् लज्जया ३ मूर्खान् न चक्रे। किंलक्षण इन्द्रः ? अचलमूर्ध्नि चाचलिः, पर्वतमस्तके चलनशीलः । चाचलिरिति निपातो ज्ञेयः ॥ १९ ॥
दिवाकरस्योर्ध्वमधश्च रेजिरे, ६ नभोऽजिरे ये प्रखरांशुदण्डकाः।
अमी महेन्द्रस्य दिवोऽवरोहतः,
___करावलंबत्वमिव प्रपेदिरे ॥२०॥ ९ दिवाकरस्यो० ये दिवाकरस्य सूर्यस्य प्रखरांशुदण्डकाः कठिनकिरणरूपदण्डका नभोऽजिरे गगनाङ्गणे ऊर्ध्वम् अधश्च रेजिरे राजन्तेस्म । ते अमी प्रखरांशुदण्डकाः । महेन्द्रस्य १२ सौधर्मेन्द्रस्य, दिवोऽवरोहतः आकाशात् उत्तरतः सतः, करावलं
बत्वं हस्ताधारत्वमिव प्रपेदिरे, प्रपद्यन्तेस । इवशब्दोऽत्र
शंकायाम् । कोऽर्थः ? यदा कोपि ऊर्श्वभूमितोऽध उत्तरति तदा १५ बद्धवंशाधवलंब्याऽधो याति, तथा इन्द्रोऽपि सूर्यकिरणदण्डकाधारेणाधो उत्तरति स्म इति भावः ॥२०॥
विवाहहर्ये त्रिजगत्प्रभोर्युवा१८ __ मवाप्स्यथः किं न मणिप्रदीपताम् ।
इति प्रलोभ्याह्वयदिन्दुभास्करी,
कृतातिथेयो पथि संगतौ हरिः ॥२१॥ २१ विवाहहम्र्ये त्रि० हरिरिन्द्रः इन्दुभास्करौ चन्द्रसूर्यो इति
अमुना प्रकारेण प्रलोभ्य लोभयित्वा आयत्, आकारयति २३ स्म । इतीति किम् ? युवां त्रिजगत्प्रभोः श्रीऋषभदेवस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org