________________
सर्गः] टीकया सहितम्
५५ पर्वतपक्षच्छेदिस्वात् । अंजनाचलाद्या इन्द्रं दृष्ट्वा मनागपि न क्षुभ्यन्तेम, खशीर्षे शाश्वतजिनप्रतिमानां स्थितत्वात् ॥१७॥ रुचाअनक्ष्माधरमौलिमूलयां
तरा तमस्यंचति सूचिभेद्यताम् । निरुद्धचक्षुर्विषयः स चिन्मयीं,
चरन् सहस्राभ्यधिकां दृशां दधौ ॥ १८॥ ६ रुचांजन० स इन्द्रः चरन् सन् सहस्रेभ्योऽधिकां सहस्रादधिकां चिन्मयीं ज्ञानमयीं दृशां दधौ धत्तेस्म । क्व सति ? अंजनक्षमाधरमौलिमूलया, अंजनाचलमस्तके मूलमुत्पत्तिर्यस्या-९ स्तया एवंविधया रुचा कान्त्या तमसि अन्धकारे सूचिमेद्यतां अंचति गच्छति सति । सूचीभिरन्धकारं न भेद्यते, तथापि कविधर्मोऽयम् । यतः कविशिक्षायामुक्तम्-'तिमिरस्य तथा १२ मुष्टिग्राह्यत्वं सूचिभेद्यता मिति । किंविशिष्टः इन्द्रः ? अत एव : कारणात् निरुद्धचक्षुर्विषयो निरस्तनेत्रगोचरः । कोऽर्थः ।, अञ्जनाचलो अतीच कृष्णः, तेन तत्रान्धकारं सूचिभेद्यम्, तत्र १५ इन्द्रः सहस्रनेत्रैरपि न पश्यति, पश्चात् ज्ञानदृशैवान्तश्वलितः ॥ १८॥
लतामयागारशया रिरंसया,
सुराः सदारा ददृशुस्तमध्वगम् ।
स तानपश्यनतिवेगतस्त्रपा. ". जडान चक्रेऽचलमूर्ध्नि चाचलिः ॥ १९॥ २१ - लतामया० सदाराः सकलत्राः सुरा देवास्तं इन्द्रं अध्वगं मार्गस्थं ददृशुः पश्यन्तिस्म । किंलक्षणाः सुराः? रिरंसया क्रीडे. २३
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org