SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ५४ जैनकुमारसंभवं [ द्वितीया कोऽर्थः ! स्वामिवन्दनोत्कण्ठया वडी (१) १ चपला २ वेगा ३ जवनतरी भिश्चतसृभिर्गतिभिरतित्वरितं चलितः ॥ १५ ॥ शिरांसि सर्पन् रुचकादिभूभृतां, तदग्रसिद्धायतन स्थितार्हतः । विलंब भीरुर्मनसैव सोऽनम• नयं न भिन्ते विबुधेशिता यतः ॥ १६ ॥ शिरांसि सर्पन् ० स इन्द्रः रुचकादिभूभृतां शिरांसि सर्पन् रुचकादिपर्वतशीर्षाणि गच्छन् सन् तदग्रसिद्धायतन स्थि९ ताईतस्तदग्रे जिनभुवनेषु ( ये ) स्थितार्हतस्तान् मनसैव अनमत | किंलक्षण इन्द्रः ? विलम्बभीरुः विलंबात् भयवान् यतो यस्मात् कारणात् । विबुधेशिता इन्द्रः, पक्षे विद्वन्मुख्यः, नयं न्यायं १२ न भिन्ते अन्यथाकरोति; श्रेयो हि प्रतिबध्नाति पूज्यपूजाव्यतिक्रम इति ॥ १६ ॥ न तस्य वज्रेsपि विलोकितेऽधरैभूवे क्वचिदंजनादिभिः । तदीयमौलौ प्रतिमा अकृत्रिमाः, सदासते यज्ञ्जगदेकपालिनाम् ॥ १७ ॥ ३ १५ न तस्य वज्रेऽपि तस्य इन्द्रस्य वज्रे विलोकितेऽपि दृष्टेऽपि सति अञ्जनादिभिर्घोरैः पर्वतैः क्वचिदधरैः कातरैर्न बभूवे । यत् यस्मात् कारणात्, तदीयमौलौ तेषां पर्वतानां मस्तके, जगदेकपालिनां जिनेन्द्राणां अकृत्रिमाः शाश्वत्यः प्रतिमाः सदा २२ आसते तिष्ठन्ति । कोऽर्थः ? पर्वतानां शत्रुरिन्द्रो वज्रेण १.८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy