________________
सर्गः] टीकया सहितम् वजैः सुराणामनुवव्रजे व्रज
नसावनुक्त्वाप्यतिरिक्तभक्तिभिः । बलात् किमामंत्रयते बलाहकः,' __ स यदलाकापटलैः परीयते ॥ १४ ॥ वजैः सुरा० असौ इन्द्रो अनुक्त्वापि व्रजन् अकथयित्वैव गच्छन् सुराणां देवानां व्रजैः समूहैरनुवव्रजे अनुगम्यतेस्म । ६ 'किंलक्षणैः सुराणां व्रजैः ? अतिरिक्तभक्तिभिः अधिकभक्तिभिः। बलाहको मेघः। बलात् किं आमंत्रयते आकारयति अपितु नैव । यत् यस्मात् कारणात् । स बलाहकः बलाकापटलैः ९ बकपत्नीसमूहैः परीयते परित्रियते ॥ १४ ॥
न चिक्लिशे कापि विभोः प्रयोजनात्
स योजनानामयुतानि लयन् । १२ पदे पदे प्रत्युत तद्विवन्दिषा
रसेन कृष्टो गतिलाघवं दधौ ॥ १५॥ न चिक्लिशे कापि० स इन्द्रः वापि न चिक्तिशे न खेद-१५ माप्तवान् । 'क्लिशंच् उपतापे', क्लिश् परोक्षा ए। किं कुर्वन् इन्द्रः ? विभोः प्रयोजनात् खामिकार्यात् योजनानामयुतानि दशसहस्राणि लंघयन् । अयुतानि इति उपलक्षणमात्रमेतत् ।। यथा योजनानां दशसहस्राणि तथा कापि लक्षाणि, कापि दशलक्षाणि लंघयन्नित्याद्यपि ज्ञेयम् । पदे पदे प्रत्युत तद्विवन्दिषा प्रत्युत इति विशेषतस्तद्विवन्दिषा तस्य भगवतो वन्दनेच्छा तस्या रसेन कृष्टः सन् । गतिलाघवं, गतौ शीघ्रत्वं दधौ । २२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org