________________
जैनकुमारसंभवं
[ द्वितीयः
त्रिलोकभर्तुः ० अथो अथोऽनन्तरं सुरेश्वरः इन्द्रः प्रास्थित चचाल । स्थाधातुः प्रपूर्वकः 'संविप्रावात् ' ( सि० ३।३।६३ ) ३ इति सूत्रेणात्मनेपदी अद्यतनीत 'अड्धातोरा ०' (सि० ४।४।२९ ) अडागमः 'इश्व स्थादः ' ( ४ | ३ | ४१ ) अद्यतन्यामात्मने इत्यनेन आस्थाने इति प्रास्थित इति सिद्धम्, ६ किंलक्षण इन्द्रः ? वैक्रियांगभृत् वैक्रियं नवीनं अंग बिभर्तीति वैक्रियांगभृत् । देवेन्द्रा भवधारिणीय देहेनैव देवलोकान्तर्थमन्ति परं मनुष्यलोकमागच्छन्तो हि उत्तरवैक्रियरूपं कुर्व९ न्तीति वैक्रियांगधारीन्द्र इत्यर्थः । पुनः किंविशिष्ट इन्द्रः ! परमार्हतः परमजैनः । पुनः किं कुर्वन् ? त्रिलोकभर्तुः जिनेन्द्रस्य विवाहावसरं विदन् । किं कृत्वा ? सभ्यान् विसृज्य । पुनः १२ किंविशिष्टः इन्द्रः ? उपसर्जनीकृतापरक्रियः । उपसर्जनीकृता गौणीकृता निरादरीकृता अपराः क्रियाः कर्तव्यानि येन स उपसर्जनीकृतापरक्रियः ॥ १२ ॥
>
१५
५२.
स्वयं प्रयाणे वद किं प्रयोजनं, समादिशेष्टं तव कर्म कुर्महे । इमाः सुराणामनुगामिनां गिरो, यियासतस्तस्य ययुर्न विभताम् ॥ १३ ॥ स्वयं प्रयाणे० : अनुगामिनां पश्चाद्गामिनां सुराणां देवाना इमा गिरो यियासतो गन्तुमिच्छतस्तस्य इन्द्रस्य विनतां अन्त२१ रायतां न ययुः न गच्छन्तिस्म । इमाः काः ? हे खामिन् ! वद ब्रूहि स्वयं प्रयाणे किं प्रयोजनं किं कार्यम् : समादिश २६ आदेशं देहि । वयं तव इष्टं कर्म कुर्महे ॥ १३ ॥
For Private & Personal Use Only
$6
i
Jain Education International
www.jainelibrary.org