SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ५० जैनकुमारसंभवं [द्वितीयः कथामृतं पीतवता, विभोः श्रीऋषभदेवस्य कथामृतं पीतवतां ऋभूणां देवानां श्रवसोः कर्णयोः भृशं अत्यर्थसुखं ३ यथाऽभूत् , तथा दृशोर्नेत्रयोरर्तिः पीडा आसीत् । यथा ऋभूणां इति पाठे 'ऋलति हूखो वा' (सि० १।२।२) इति पदं ज्ञेयम् । कया ? अदोदिदृक्षया अस्य भगवतो दिदृक्षया । (अमुं) द्रष्टुमिच्छा दिदृक्षा (अदो०) तथा अदोदितक्षया । जन्तुः प्राणी, भवे संसारे, क्वचित् एकान्तसुखी न भवेत् ॥ ८॥ प्रकृत्य कृत्यान्तरशून्यतां सद९. स्यदस्य गीतेन तदा दिवौकसाम् । ध्वनेः खजन्यत्वमसूचि सूचितं, यदुद्भवो यः स तदाभचेष्टितः॥९॥ १२ प्रकृत्य कृत्या० सदसि सभायां अदस्य गीतेन तदा तस्मिन्नवसरे दिवौकसां देवानां कृत्यान्तरशून्यतां कार्यान्तरविषयेषु शून्यतां अचेतनत्वं प्रकृत्य प्रारभ्य ध्वनेः शब्दस्य खजन्यत्वं १५आकाशभवत्वं सूचितं यथा भवति तथा असूचि कथितम् । वैशेषिकाः शब्द आकाशगुण इति कथयन्ति । यो यदुद्भवो , यो यस्मात् उत्पद्यते स तदाभचेष्टितस्तत्सदृशचेष्टावान् स्यात्, १८यथा आकाशं शून्यं कथ्यते तदा तद्भवः शब्दोऽपि शून्यताकारी स्यादिति युक्तमेव ॥ ९॥ तदीयगीताहितहत्तया समं, समुज्झिताशेषशरीरचेष्टितैः। खभावनिःस्पन्दनिरीक्षणैः क्षणं, न तत्र चित्रप्रतिमायितं न तैः ॥१०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy