SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ सर्गः] टीकया सहितम् यशोऽमृतौषः प्रससार तन्मुखा, तथा प्रभोः पार्षदनिर्जरैर्यथा । अयं श्रवः कूपकहृत्सरेष्वमान् , . दृगध्वनावामि मुदश्रुदम्भता ॥ ६॥ ...... यशोऽमृतौघः० तन्मुखात् तयोस्तुम्बरुनारदयोर्मुखात् प्रभोः श्रीऋषभदेवस्य यशोऽमृतौघः यशोऽमृतस्य उद्यत्प्रवाहस्तथा प्रस-६ सार प्रसरति स्म, यथा पार्षदनिर्जरैः सभ्यदेवैरेवं यशोऽमृतौघः मुदश्रुदम्भतो हर्षाश्रुमिषात् दृगध्वना दृष्टिमार्गेण वाम्यते स्म । किं कुर्वन् यशोऽमृतौषः ? श्रवः कूपकहृत्सरेष्वमान् ।९ श्रवणरूपकूपहृदयरूपसरोवरेषु अमान् मातुमशक्तः ॥६॥ ध्रुवं दृशोश्च श्रवसोश्च सङ्गतं, . प्रवाहवत्मान्तरमस्ति देहिनाम् ।... १२ श्रुतिं गतो गीतरसो दृशोदभूत्, . ... मुदश्रुदम्भाद् धुसदां किमन्यथा? ॥७॥ ध्रुवं दृशोश्च० देहिनां प्राणिनां ध्रुवं निश्चितं दृशोदृष्ट्योः च १५ अन्यत् श्रवसोः कर्णयोः अन्तरं मध्यसत्कं प्रवाहवर्त्म प्रवाहमार्ग संगतं मिलितं अस्ति, अन्यथा गीतरसः घुसदां देवानां श्रुतिं कर्णं गतः सन् मुदश्रुदम्भात् दृशा किं उदभूत् प्रकटो१८ बभूव । कोऽर्थः ? खामिनो गीतेन देवानां लोचनानि हर्षाश्रुजलप्लाविजातानि, गीतस्य रसत्वारोपादयं कवर्भावो ज्ञेयः॥७॥ कथामृतं पीतवतां विभोरभूद् यथा ऋभूणां श्रवसोर्भृशं सुखम् । तथा दृशोरतिरदोदिदृक्षया, न जन्तुरेकान्तसुखी कचिद्भवे ॥८॥ जै० कु. ४ २४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy