SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ जैनकुमारसंभवं [द्वितीय: परेऽर्णवालोडनसाधितां सुधां . प्रभोः पिबन्तश्चरितामृतं सुराः॥४॥ ३ निनिन्दुरेके० एके देवा अमरधेनुजं पयः कामधेनुसंबन्धि दुग्धं निनिन्दुर्निन्दन्ति स्म । णिदि कुत्सायामिति धातोः प्रयोगः इति क्रिया सर्वत्र योज्यते । अपरे देवा मरुद्रुमाणां मरुतो ६ देवास्तेषां द्रुमाः कल्पवृक्षाः तेषां फलावलीम् । अपरे सुराः सुधां अमृतम्। किंलक्षणां सुधाम् ? अर्णवालोडनेन करणात् साधितां समुद्रस्य आलोडनं मथनं ततः साधितां प्रकटिताम्। किं कुर्वन्तः ९सुराः? प्रभोः श्रीऋषभदेवस्य चरित्रामृतं पिबन्तः । कोऽर्थः ? देवानां श्रीयुगादिदेवचरितामृतं कामधेनुदुग्ध-कल्पवृक्षफलसुधानिर्यासादिभ्योऽप्यधिकतरं सरसं जातम् अतोऽमरधेनु१२ मरुद्रुमकरीर इति हीनशब्दौ साभिप्रायो, सुधायाः प्रयास 'साध्यत्वमेव दोषः ॥ ४ ॥ श्रवाः श्रियं प्रापुरमी प्रभोर्गुणै-, १५ वयं वृथाभारकृतः किमामहे । - मुदा शिरः स्खं धुनता सभासदा- . मितीव पेते किल कर्णवेष्टकैः ॥५॥ १४ श्रवाः श्रियं० किल इति सत्ये । सभासदां सभ्यानां कर्ण वेष्टकैः कुण्डलैः पेते पतितम् । उत्प्रेक्षते, इतीव इतिकारणादिव इतीति किम् ? अमी सभासदः सभ्याः प्रभोर्गुणैः श्रवः श्रियं २५ कर्णशोभा प्रापुः, वृथाभारकृतो मुधाभारकारिणो वयं किं आस्महे किं तिष्ठामः । किं कुर्वतां सभासदाम् ? मुदा हर्षेण खं २३ शिरः खीयं मस्तकं धुनताम् । कर्णवेष्टकः पुनपुंसको ज्ञेयः ॥५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy