SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ सर्गः] टीकया सहितम् ४७ प्रभुः प्रभाम्भोनिधि०, प्रभुः श्रीऋषभदेवः प्रभाम्भोनिधिः प्रभाया अम्भोनिधिः समुद्रो वर्तते, सभा आमरी अमराणामियमामरी देवसभा वर्तते । वयं किमु स्तुमः, यदि तौ तुम्बर-३ नारदौ गातुं उद्यतौ । अत्र दृष्टान्तमाह-मणिमहायों बहुमूल्यो वर्तते, काञ्चनं सुवर्ण शुचि कान्ति पवित्ररुक् वर्तते, ततः परं कलादस्य सुवर्णकारस्य कला मनोज्ञा कलापि वर्ण्यताम् ॥२॥६ गुणाढ्यया गेयविधिप्रवीणया, न वीणया गीतमदोऽन्वगायि न । सरस्वती पाणितलं न मुञ्चती, किमौचितीतच्यवते कदापि सा ॥३॥ गुणाढ्यया गेयविधिप्रवीणया, वीणया अदस्तुम्बरुनारदसम्बन्धि गीतं न न अन्वगायि नहि नहि अनु पश्चाद्गीयते स्म, १२ अपितु गीयते स्म । अत्र द्वौ नौ प्रकृतमथें गमयतः । किंविशिष्टया वीणया? गुणाढ्यया गुणैस्तंत्रीभिः विवेकादिभिर्वा आन्यया समृद्धया। अन्या गायिनी गुणैर्माधुर्यादिभिराव्या स्यात् । १५ पुनः किंविशिष्टया ? गेयविधौ गेयं गानं तस्य विधौ प्रवीणया निपुणया । सा वीणा औचिती औचित्यगुणात् किं कदापि च्यवते अश्यति अपितु नैव । किंकुर्वती वीणा ? सरखती-१८ पाणितलं सरखत्या हस्ततलं न मुञ्चती । यः सरखत्याः समीपं न मुञ्चति, तस्य विवेकाद्या गुणाः स्युः । अत्र किं चित्रम् ॥३॥ निनिन्दुरेकेऽमरधेनुजं पयो, मरुद्रुमाणामपरे फलावलीम् । २२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy