SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ जैनकुमारसंभवं [द्वितीयः कामदेव इति भ्रमं जनयन् उत्पादयन् । यो यस्य निर्जेता स्यात् स तस्यैव भ्रान्ति कथं उत्पादयति इति चित्रम् ॥ ७७ ॥ ३ इति श्रीअञ्चलगच्छे कविचक्रवर्तिश्रीजयशेखरसूरिविरचितस्य जैनकुमारसम्भवस्य तच्छिष्यश्रीधर्मशेखरसूरिविरचितटीकायां श्रीमाणिक्य सुन्दरसूरिशोधितार्या प्रथमसर्गव्याख्या समाप्ता ॥ १॥ ॥ अथ द्वितीयः सर्गः प्रारभ्यते ॥ तदा हरेः संसदि रूपसम्पदं, प्रभोः प्रभाजीवनयौवनोदिताम् । अगायतां तुम्बरुनारदौ रदो- . च्छलन्मयूखच्छलदर्शिताशयौ ॥१॥ तदा हरेः० तदा तस्मिन् अवसरे तुम्बरुनारदौ हरेरिन्द्रस्य १२ संसदि सभायां प्रभोः श्रीऋषभदेवस्य रूपसम्पदं रूपलक्ष्मी अगायतांगायनः स्म । किंलक्षणं रूपसंपदम् ? प्रभाजीवनयौवनोदितां प्रभाया जीवनं यद्यौवनं तस्मादुदितां उत्पन्नाम् , किंलक्षणौ तुम्बरु१५ नारदौ ? रदोच्छलन्मयूखच्छलदर्शिताशयौ रदेभ्यो दन्तेभ्य उच्छलन्तो ये मयूखाः किरणास्तेषां च्छलेन मिषेण दर्शिताशयों दर्शित प्रकटित आशयो अभिशयो याभ्यां तौ रदोच्छलन्म१८यूखदर्शिताशयौ एतावता विशदचित्तौ ॥ १॥ प्रभुः प्रभाम्भोनिधिरामरी सभा, किमु स्तुमस्तौ यदि मातुमुद्यतौ । मणिमहार्यः शुचिकान्ति काञ्चनम् , कला कलादस्य कलापि वर्ण्यताम् ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy