________________
सर्गः] टीकया सहितम्
हृदि ध्याते. इह भगवति हृदि ध्याते सति कुसुमशरजन्मा ज्वरभरः कामज्वरसमूहो जातः । च अन्यत् इह खामिनि श्रुते सति श्रवणयोः कर्णयोः अन्यश्लाघा वचनविरुचित्वं ३ जातं, अन्येषां प्रशंसावचनेऽरुचिरुत्पन्ना । इह भगवति दृष्टे सति दृशोलोचनयोः इतरविषयगत्यां अलसता स्पष्टा जाता अन्यत्रावलोकने आलस्यं प्रकटं जातम् । तथापि अमरवध्वो ६ देव्य इह भगवति निरवधि अवधिरहितं स्नेहं दधुः । यस्मिन् ध्याते ज्वरः, श्रुतेऽरुचिः, दृष्टे आलस्यं जायते, तत्र स्नेहः कथं ध्रियते इति विरोधः ॥ ७६ ॥ .... नारीणां नयनेषु चापलपरीवादं विनिनन् वपुःन, . सौन्दर्येण विशेषितेन वयसा बाल्यात्पुरोवर्तिना ॥ निर्जेतापि मनोभवस्य जनयंस्तस्यैव वामाकुले,
भ्रान्ति कालमसौ निनाय विविधक्रीडारसैः कश्चन ७७
नारीणां नयनेषु० असौ भगवान् विविधक्रीडारसैः कञ्चन कालं कियन्तं समयं निनाय गमयतिस्म । किं कुर्वन् ? वपुःसौन्द-१५ र्येण शरीरमनोहरत्वेन निश्चलताकरणात् नारीणां स्त्रीणां नयनेषु लोचनेषु चापलपरीवादं चपलताया अपवादं विनिनन् विनाशयन्। किंलक्षणेन वपुःसौन्दर्येण ? बाल्यात् पुरोवर्तिना बाल्यादग्रेस- १८ रेण वयसा यौवनलक्षणेन विशेषितेन विशेषविशिष्टतां सश्रीकतां प्रापितेन । किं कुर्वन् भगवान् ? मनोभवस्य कामस्य निर्जेतापि वामाकुले स्त्रीवर्गे रूपश्रिया तस्यैव मनोभवस्य भ्रान्ति अयमेव २४
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org