________________
४४
जैनकुमारसंभवं
[ 'प्रथमः
प्रविष्टः जिनं विना लोकचित्ते नान्यो जनः स्थित इति भावः । यावद्वेदमिति ‘विदूंती लाभे' विद् । यावत् पूर्वं 'यावतो - ६ विन्दजीवः' (सि० ५/४/५५ ) इति सूत्रात् यथा यावज्जीवं तथा यावद्वेदमिति प्रयोगः ॥ ७४ ॥ अप्राप्यकारि नयनं न मृषाह जैनः, सम्पृच्य चेद्भगवतो वपुषा विदध्युः । सेवामुपासकदृशस्तदिमा अपीह
दध्युः, कराद्यवयवा इव दिव्यभूषाम् ॥ ७५ ॥ अप्राप्यकारि - जैनः नयनं लोचनं अप्राप्यकारीति दूरस्थमेव स्वविषयग्राहकं मृषा अलीकं न आह न जल्पति, जैनानां हि स्पर्शनरसनप्राणश्रवणेन्द्रियाणि प्राप्यकारीणि स्पृष्टवि१२ षयग्राहकत्वात्, नयनमनसी त्वप्राप्यकारिणी दहनाद्यसम्भवे अस्पृष्टविषयग्राहकत्वात्, ( ' पुढं सुणेइ सद्द रूवं पुण पासई अपुढं तु' ) इत्यागमवचनात्, अत्रोपपत्तिमाह – चेत् यदि १५. उपासकदृशः सेवकदृष्टयः भगवतो वपुषा संपृच्य सेवा - करणेन दिव्यभूषां कङ्कणमुद्रामुकुटादिकां दधति, तथा दृशः । तासां कज्जलमेव भूषणं च स्यात्, न तु स्वर्णादि । 'परहस्तेन १८ वाणिज्यम्, सेवा सन्देशतस्तथा । तादृगेव फलं धत्ते, लोकेऽपि श्रूयते किल' इति ॥ ७५ ॥
२१
२३
हृदि ध्याते जातः कुसुमशरजन्मा ज्वरभरः, श्रुते चान्यश्लाघावचनविरुचित्वं श्रवणयोः ॥ दृशोर्दृष्टे स्पष्टेतरविषयगत्यामलसता, तथापी स्नेहं दधुरमरवध्वो निरवधिम् ॥ ७६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org