________________
जनैः ? तखतमिः प्रजानो जनः प्रभुः खार
सर्गः] टीकया सहितम्
४३ शीलसमे हृदि । स्थातव्यं जङ्गमे तीर्थे ज्ञानार्जवदयापरैः," इत्यादितीर्थलक्षणाश्रितत्वात् । स खामी मङ्गलमिति सर्वपापच्छेदकत्वात् । स एष जिनः, सखा मित्रं आश्रितजनानां श्लाध्य-३ कर्मोद्यमकारकत्वात् । स खामी तातः पिता इति भव्यानां अन्तरङ्गशत्रुरक्षकत्वात् । स भगवान् प्राणितं जीवितमिति, पुण्यभाजां पुण्यरूपजीवितदायकत्वात् । स जिनः प्रभुः खामी इति सकलरीतिनीतिस्थितिभिः प्रजानां पालकत्वात् । किंविशिष्टैः जनैः ? तद्गतसर्वकृत्यैः तस्मिन् भगवति गतानि स्थितानि सर्वकृत्यानि येषां ते तद्गतसर्वकृत्यास्तैस्तद्गतसर्वकृत्यैः ॥ ७३ ॥९
योगीश्वरोऽभिनवमन्यतनुप्रवेश
मभ्यस्तवानुदरकन्दरगः स्वमातुः । बालो युवाप्यनपहाय तनूं स याव
१३ द्वेदं विवेश हृदयानि यदीक्षकाणाम् ॥७४॥ योगीश्वरो० यो भगवान् योगीश्वरः सन् अभिनवं नवीनं अन्यतनुप्रवेशं अभ्यस्तवान् , किंविशिष्टः भगवान् ? खमातु-१५ रुदरकन्दरगः आत्मीयजनन्या उदरमेव कन्दरं तत्र स्थितः, अन्योऽपि योगी कन्दरमध्ये परकायप्रवेशविद्यामभ्यसति । स जिनो बालो युवापि सन् तनूं शरीरं अनपहाय अत्यक्त्वा १४ ईक्षकाणां आलोकनपराणां यद् हृदयानि यावद्वेदं यथालाभ विवेश प्रविष्टवान् । अन्यो योगी निजशरीरं त्यक्त्वा अन्यस्य एकस्य कस्यचित् शरीरे परकायप्रवेशविद्यया प्रविशति, २१ अयं तु भगवान् शरीरं अत्यक्त्वा परेषां शरीरे प्रविवेश अतोऽत्रापूर्वता । कोऽर्थः ? भगवान् बालो युवानपि यैदृष्टस्तेषां हृदये २३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org