________________
४२
जैनकुमारसंभवं
[प्रथमः
धत्तां यशोऽस्याखिललोलगर्व
सर्वस्वसर्वङ्कषताभिमानम् । गुणैदृढयूंढघनैर्निबद्ध,
मपि त्रिलोकाटनलम्पटं यत् ॥ ७२ ॥ धत्तां यशो० अस्य भगवतो यशः अखिललोलगर्वसर्वख६ सर्वकषताभिमानम् , अखिलाः समस्ता लोलाश्चपला ये पदार्थास्तेषां यद्गर्वसर्वखं तस्य सर्वकषता सर्वोन्मूलनता तस्याभिमानं
अहङ्कारं धत्तां बिभर्तु । कोऽर्थः? भगवतो हि यशस्त्रिभुवने ९सर्वचपलपदार्थेभ्योऽप्यतिचपलत्वेन विश्वं व्यामोति स्म । यद् यशो गुणैरौदार्यधैर्यगाम्भीर्यचातुर्यमाधुर्यादिभिर्दवरकैः वा निबद्धं बद्धमपि त्रिलोकाटनलम्पटं विश्वभ्रमणारसिकं वर्तते । किं१२ लक्षणैर्गुणैः ? दृढव्यूढधनैः दृढा निश्चलाश्च व्यूढा विस्तीर्णाश्च धना निचिताश्च दृढव्यूढघनास्तैदृढन्यूढघनैः ॥ ७२ ॥
स एव देवः स गुरुः स तीर्थ, १५ स मङ्गलं सैष सखा स तातः।
स प्राणितं स प्रभुरित्युपासा
मासे जनस्तद्गतसर्वकृत्यैः ॥७३॥ १८ स एव देवः० जनैर्लोकः स एव भगवान् इति अमुना प्रका
रेण उपासामासे सेव्यतेस । उपासामासे इति क्रियापदं अष्टसु.
स्थानेषु संयोज्यते । स पुनः भगवान् देव इति चतुःषष्टीन्द्र२१ सुरासुरनरप्रभृतिलोकैः सेव्यपादारविन्दत्वात् । स भगवान् गुरु
रिति लोकानां आचारविचारव्यवहारकलाविद्याशिल्पविज्ञानादि२३ प्रकाशकत्वात् । स जिनस्तीर्थमिति "अगाधे विमले शुद्धे सत्य
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org