SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ सर्गः ] टीका सहितम् ३९ उरसिलोऽपि बलवानपि, अनङ्गः कन्दर्पः, तं भगवन्तं सशङ्कमेव यथा भवति, तथा उपचारात् सेवते स्म । किंलक्षणोऽनङ्गः ? तदङ्गजन्मा तस्य चित्तस्याङ्गजन्मा पुत्रः । यदि पिता वश्यस्तदा ३ पुत्रोऽप्यवश्यं वश्य एव स्यादिति ॥ ६५ ॥ पश्चादमुष्यामरवृन्दमुख्याः, पदाभिषेकं प्रथयाम्बभूवुः । प्रागेव पृथ्व्यां प्रससार दुष्टचेष्टोरगीवज्रमुखः प्रतापः ॥ ६६ ॥ पश्चादमुष्या० - अमरवृन्दमुख्या सुरेन्द्राः अमुष्य स्वामिनः ९ पदाभिषेकं पश्चात् प्रथयाम्बभूवुर्विस्तारयामासुः अमुष्य भगवतः प्रतापः पृथ्व्यां प्रागेव प्रथममेव प्रससार प्रसरतिस्म । किंलक्षणः प्रतापः ? दुष्टचेष्टोरगी वज्रमुखः दुष्टानां अन्याय - १२ कारिणां चेष्टा, सैव उरगी सर्पिणी, तां प्रति वज्रमुखो गरुडसमानः ॥ ६६ ॥ आनचुरिन्द्रा मकरन्दबिन्दुसन्दोहवृत्तरूपनावयत्नम् । मन्दारमाल्यैर्मुकुटाग्रभाग भ्रष्टैर्नमन्तोऽनुदिनं यदंही ॥ ६७ ॥ Jain Education International १५ आनञ्चुरिन्द्रा० इन्द्रा यदही यस्य स्वामिनः पादौ, मन्दारमाल्यैः मन्दारस्य कुसुममालाभिः, अयत्नं उपक्रमं विनैव, आनञ्चुः पूजयामासुः । किंलक्षणौ यदही ? मकरन्दबिन्दु सन्दोह वृत्तस्वपनौ । मकरन्दबिन्दूनां समूहेन निष्पन्नात्रौ । किंलक्षणैर्म - २२ For Private & Personal Use Only १८ www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy