SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ४० जैनकुमारसंभवं [ प्रथमः न्दारमाल्यैः ? मुकुटाग्रभागभ्रष्टैर्मुकुटस्याग्रभागात् भ्रष्टैः पतितैः । किं कुर्वन्तः सुराः ? अनुदिनं निरन्तरं नमन्तः । खयमेव ३ नमतां मालापतने स्नात्रं पूजा च स्यात्, अतोऽयलमिति उक्तम् ॥ ६७ ॥ आमोक्षसौख्यांहति संधयास्मिनात्मातिरिक्तेऽभ्युदिते पृथिव्याम् । अशिश्रियन्मन्दरकन्दराणि, संजातलजा इव कल्पवृक्षाः ॥ ६८ ॥ आमोक्षसौ ० कल्पवृक्षा मन्दरकन्दराणि मेरोर्गुहा अशिश्रियन् आश्रितवन्तः । उत्प्रेक्षते, संजातलज्जा इव उत्पन्नलज्जा इव । क्व सति ? अस्मिन् भगवति आमोक्षसौख्यांहति सन्धया, १२ मोक्षावधि यत् सौख्यं तस्य अंहतिर्दानं तद्विषये सन्धा प्रतिज्ञा तया । आत्माऽतिरिक्ते आत्मनोऽधिके पृथिव्यां अभ्युदिते सति कल्पवृक्षैरात्मभ्योऽपि अधिकदातारं भगवन्तं वीक्ष्य लज्जया मेरु१५ गुहा आश्रिताः ॥ ६८ ॥ स्वर्गायनैः स्वर्गिपतेः सभायामाविष्कृते कीर्त्यमृते तदीये । तत्पानतस्तृप्यति नाकिलो के, सुधा ग्रहीतारमृते मुधाभूत् ॥ ६९ ॥ स्वर्गायनैः० सुधा अमृतम्, ग्रहीतारं ग्राहकम्, ऋते विना, २१ मुधा निःफला भूत् । क सति ? खर्गायनैस्तुम्बरुनारदाद्यैः गायनैः, स्वर्गिपतेरिन्द्रस्य सभायाम्, तदीये तस्य खामिनः सत्के, कीर्त्य - २३ मृते आविष्कृते प्रकटीकृते सति । पुनः क सति ! तत्पानतस्तस्य १८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy