________________
३६
जैनकुमारसंभवं
[ प्रथमः
कथयामासुः, अपि तु जगुरेव । किं कृत्वा ? अर्ध च अन्यत् पूर्ण च विधुं चन्द्रं ललाटमुखच्छलाचदङ्गभूतौ तस्य भगवतोऽङ्ग३ भूतौ अवयवतां गतौ वीक्ष्य दृष्ट्वा । कोऽर्थः ? स्वामिभालं अर्धचन्द्रसदृक् वक्रं संपूर्णचन्द्रमण्डलसदृक्षं चाभूत्, तेनाष्टमी पूर्णिमास्यौ, सर्वतिथिमध्ये गरिष्ठे जाते कथ्येते ॥ ६० ॥ द्विष्टोऽपि लोकैरमुना स्वमूर्भि, निवेशितः केशकलापरूपः ।
वर्णोsवरः श्रीभरमाप नाथप्रसादसाध्ये ह्युदये कुलं किम् १ ॥ ६१ ॥ द्विष्टोऽपि लोकै० अवरः अप्रशस्यो वर्णः श्यामवर्णको नीचवर्णको वा, श्रीभरं शोभासमूहं आप प्राप, किंविशिष्टः १२ वर्णः ? लोकैर्द्विष्टोऽपि पुनः किंविशिष्टः ? अमुना भगवता स्वमूर्ध्नि आत्मीयमस्तके निवेशत आरोपितः पुनः किंविशिष्टः ? केशकलापरूपः केशकलाप एव रूपं यस्य सः, हि निश्चितं नाथप्रसादे साध्ये उदये सति कुलं किं वीक्ष्यते ? कोऽर्थः ? नृपो यस्य प्रसादाभिमुखं स्यात् तस्याऽकुलीनस्यापि सम्पदः स्युरिति भावः, उक्तं च " सुप्रसन्नविशदस्य भूपतेर्यत्र यत्र विलसन्ति दृष्टयः । तत्र तत्र शुचिता कुलीनता दक्षता सुभगता च गच्छति ॥ १ ॥” ६१ ॥
१५
बुद्धा नवश्मश्रुसमाश्रिताङ्कश्रीकं निशोदीतमदोमुखेन्दुम् । केशौघदम्भात्किमु पुष्पतारालङ्कारहारिण्यभिसारिकाभूत् ॥ ६२ ॥
१८
"
२१
Mar
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org