SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ३५ सर्गः] टीकया सहितम् किंविशिष्टैः प्रमदोन्मुदिष्णुमनोमयूरैः ? यौवनरूपवैश्वानरेण संतप्तैः, पुनः किंवि० ? विलसत्कलापैः विलसत् कलानां आपः प्राप्तिः येषु ते विलसत्कलापास्तैर्विल०, पक्षे विकसन्मोरपिच्छैः३ बवानलादिसंभवे वह्नितप्तत्वं च मयूराणां अपि स्यात् ।। ५८॥ भ्रान्त्वाखिलेऽङ्गेऽस्य दृशो वशानां, प्रभापयोऽक्षिप्रपयोर्निपीय । छायां चिरं भूलतयोरुपास्य, भालस्थले सन्दधुरध्वगत्वम् ॥ ५९ ॥ प्रान्त्वा० वशानां स्त्रीणां दृशोऽस्य भगवतोऽखिले समस्ते अङ्गे भ्रान्त्वा, ततः परं अक्षिप्रपयोर्लोचनरूपप्रपयोः प्रभापयः प्रभारूपजलं निपीय पीत्वा झूलतयोभ्रंवल्योः छायां कान्ति वा चिरं चिरकालं उपास्य सेवित्वा, भालस्थले अध्वगतं पथिकत्वं सन्दधुः सन्दधते स, अन्यत्रापि पथिक्यः अङ्गनाग्नि देशे आन्वा प्रपासु पयः पीत्वा लतासु छायामुपास्य स्थलमार्गे गमनं कुर्वन्ति ॥ ५९ ॥ अर्ध च पूर्ण च विधुं ललाट. मुखच्छलाद्वीक्ष्य तदङ्गभूतौ । न के गरिष्ठां जगुरष्टमी च, - राकां च तन्नाथतया तिथिषु ॥६०॥ अर्ध च पूर्ण च० के विज्ञपुरुषा अष्टमी च अन्यत् राकां : च पूर्णिमां च तन्नाथतया तौ अर्धपूर्णौ विधुनाथौ ययोस्तत्तनाथयोर्भावस्वनाथतया, तिथिषु पञ्चदशखपि, गरिष्ठां न जगुर्न २१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy