SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ जैनकुमारसंभवं [प्रथमः अथ द्वितीयपक्षे द्विजानां ब्राह्मणानां ईशः खामी द्विजेशः तस्य द्विजा ब्राह्मणा प्रभुणा खामिना दत्तं लक्ष्मीसमूह वहंति ३ स्म । व्यक्तं द्विपजिभवनादित्यादि अत्राऽपि योज्यम् ॥ ५२ ॥ अदान्मृदुर्मादेवमुक्तियुक्त्या, युक्तं तदीया जनतासु जिह्वा । लोला स्वयं स्थैर्यगुणं तु सभ्या नभ्यासयन्ती कुतुकाय किं न ? ॥ ५३॥ अदान्मृदुः० तदीया तस्य भगवतः सम्बन्धिनी जिह्वा ९ जनतासु जनसमूहेषु उक्तियुक्तया वचनं चातुर्य मार्दवं सौकुमार्ययुक्तं अदात्, किंलक्षणा जिह्वा ? मृदुः कोमला अत एव हेतोर्मादेवं अदात् , तु पुनः खयं लोला चपला सती १२ सभ्यान् सभाजनान् स्थैर्य गुणं अभ्यासयन्ती कुतुकाय किं न स्यादपि तु स्यादेव । कोऽर्थः खामिनो जिव्हया सर्वथा स्थैर्यभावः खान्ते उत्पाद्यते ॥ ५३ ॥ १५ प्राणं जगजीवनहेतुभूतं, नासा यदौन्नत्यपदं दधाति । कर्मारिमाराय तदग्रवीक्षा, 16 दीक्षादिनान्तेन ततो निधाता ॥ ५४॥ प्राणं जगजीवनहेतुभूतं० नासा नासिका प्राणं पवनं बलं वा यद् दधाति । किंलक्षणा नासा ? औन्नत्यपदं उच्चतायाः स्थानम्। २.प्राणं किंलक्षणम् ? जगज्जीवनहेतुभूतं जगतो विश्वस्य जीवनाय हेतुभूतं तत् तस्मात् कारणात् तेन भगवता कर्मारिमाराय २३ कर्मरूपशत्रूणां विनाशाय आदीक्षादिनात् दीक्षादिनमारभ्य Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy