________________
सर्गः] टीकया सहितम् तदप्रवीक्षा तस्या नासिकाया अग्रनिरीक्षणं विधास्यता । कोऽर्थः? खामी दीक्षानन्तरं खनासाग्रदचहक् कर्मशत्रून् हनिष्यतीति भावः, यो बलवान् स्यात् तस्यैव वीक्षा शत्रुहननावसरे ३ क्रियते ॥ ५४॥
श्रेयस्करावुल्लसदंशुराशी,
पार्श्वद्वयासीनजनेषु यस्य । कलौ कपोलावकरप्रयत्न
हैमात्मदर्शत्वमशिश्रियाताम् ॥ ५५ ॥ श्रेयस्करा०, तस्य भगवतः कलौ मनोज्ञौ कपोलौ पार्श्वद्व-९ यासीनजनेषु उभयोः पार्थयोः उपविष्टलोकेषु अकरप्रयत्नहेमात्मदर्शत्वं हस्तापक्रमरहितवर्णमयदर्पणत्वं अशिश्रियातां आश्रितवन्तौ, किंविशिष्टौ कपोलौ ? श्रेयस्करौ मङ्गलकर्तारौ । १२ पुनः किंविशिष्टौ ? उल्लसदंशुराशी उद्गच्छत्किरणसमूहौ ॥५५॥
वितेनुषी श्मश्रुवने विहारं,
दोलारसाय श्रितकर्णपालिः।
स्फुरत्प्रभावारि चिरं चिखेल, .. तदाननाम्भोजनिवासिनी श्रीः॥ ५६ ॥ :: वितेनुषी० तदाननाम्भोजनिवासिनी तस्य भगवतो मुख-१८ कमलवासिनी श्रीलक्ष्मीः, स्फुरत्प्रभावारि प्रसरत्प्रभारूपजले, चिरं चिरकालं चिखेल क्रीडाञ्चकार, वार्शब्दो व्यंज-. नान्तोऽत्र ज्ञेयः । किंलक्षणा श्रीः ? श्मश्रुवने कूर्चरूपोद्याने विहारं विचरणं वितेनुषी कृतवती, पुनः किंविशिष्टा श्रीः१२२
जै० कु. ३
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org