SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ सर्गः] टीकया सहितम् ३१ निशारुचिः, अन्योऽप्यपत्रपिष्णुर्दिवा अप्रकाशः स्यात् , तस्यैव हि निशायां रुचिरभिलाषः स्यात् ॥ ५० ॥ ओष्ठद्वयं वाक्समयेऽवदात दन्तद्युतिप्लावितमेतदीयम् । बभूव दुग्धोदधिवीचिधौत प्रवालवल्लीप्रतिमल्लितथि ॥५१॥ ओष्ठद्वयं० एतदीयं ओष्ठद्वयं दुग्धोदधिवीचिधौतप्रवालवल्लीप्रतिमल्लितश्रि दुग्धोदधेः क्षीरसमुद्रस्य वीचिभिः कल्लोलैः धौताया क्षालितायाः प्रवालवल्लेः प्रतिमल्लिता प्रतिमल्लीकृता९ श्रीर्येन तत् दुग्धोदधिश्रीबभूव, किंविशिष्टं ओष्ठद्वयम् ? वाक्समये वचनावसरे अवदातदन्तद्युतिप्लावितं उज्वलदन्तसत्ककिरणैाप्तं ओष्ठद्वयं प्रवालवल्लीसदृशं दन्तद्युतयः क्षीरसमुद्र-१२ कल्लोलसदृशाश्चेति इति भावः ॥ ५१ ॥ व्यक्तं द्विपतिभवनादजस्रं, __ श्रीरक्षणे यामिकतां प्रपन्नाः। द्विजा द्विजेशस्य तदाननस्य, लक्ष्मीसमूहं प्रभुदत्तमूहः॥५२॥ व्यक्तं द्विपति० द्विजेशस्य इति । तस्य भगवत आननं मुखं १४ तदेव द्विजेशश्चन्द्रस्तस्य द्विजा दन्ता लक्ष्मीसमूहं शोभासमुदयं ऊहुर्वहन्ति स्म, किंविशिष्टं लक्ष्मीसमूहम् ? प्रभुणा मुखेन दत्तं मुख एव स्थिता दन्ताः शोभां भजन्त इति, किंलक्षणा २१ द्विजाः ? व्यक्तं प्रकटं द्विपतिभवनात् अजस्रं निरंतरं श्रीरक्षण यामिकतां आरक्षकतां प्रपन्नाः, दन्तैरेव मुखस्य शोभा स्यात् । २३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy