________________
३०
जैनकुमारसंभवं
[प्रथमः
स्म, च अन्यत् , तस्य भगवतः अङ्गुलीः कामदुधास्तनानमंस्त, तस्य नखान् चिंतामणीनमंस्त ॥ १८ ॥
येन त्रिलोकीगतगायनौचं,
जिगाय धीरध्वनिरस्य कण्ठः ।
क्रमेण तेनैव किमेष रेखा६ त्रयं कृतं साक्षिजनैर्बभार ॥४९॥
येन त्रिलोकी०-अस्य भगवतः कण्ठो येन क्रमेण त्रिलोकीगतगायनौघं, त्रिभुवनस्थानां गायनानां समूहं जिगाय इति ९ जितवान् , किंलक्षणः कण्ठः ? धीरध्वनिः धीरो गम्भीरो ध्वनिः शब्दो यस्य स धीरध्वनिः । एष कण्ठस्तेनैव क्रमेण किं रेखात्रयं बभार, किंविशिष्टं रेखात्रयम् ? साक्षिजनैः कृतम् , कोऽर्थः ? १२ त्रिभुवने तावता खामिकण्ठसदृग् धीरध्वनिर्नास्तीत्यर्थः ॥ १९॥
यजातिवैरं सरता तदास्या
भोजन्मनाऽभंजि जगत्समक्षम् । १५
निशारुचिस्तत्किमपत्रपिष्णुः,
सोऽयं दिवाभूद्विधुरप्रकाशः॥५०॥ . यज्जातिवैरं० यत् तदास्यांभोजन्मना तदीयमुखकमलेन १८ अयं विधुश्चन्द्रो जगत्समक्षं विश्वसाक्षिकं अभंजि जीयतेस
इत्यर्थः, किं कुर्वता तदास्यांभोजन्मना ? जातिवैरं स्मरता, सोऽयं विधुश्चन्द्रः तत् तस्मात् कारणात् दिवा दिवसे किं
अप्रकाशो अप्रकट एवाभूत् , किंलक्षणो विधुः ! अपत्रपिष्णुः २२ लज्जनशीलः, पुनः किं० ? निशायां रुचिः कान्तिः यस्य स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org