SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ सर्गः] टीकया सहितम् मध्यं अध्यूषिषा मध्ये उषितेन, 'वसं निवासे' वस् , अधिपूर्वः अध्युवास क सकानौ परोक्षावच कसन् प्रत्ययः, ततो द्वित्वेवस्य संप्रसारणे उत्वेऽधिना सह यत्वे इडागमे षत्वे अध्यूषिवत्स ३ इति स्यात् , ततस्तृतीयैकवचने अधुटखरादौ सेटस्यापि इट सहितस्य च शब्दस्योत्वे नलोपेऽध्यूषिषा इति स्यात् ॥ ४६ ॥ यत्र त्रिलोकी निहितात्मभारा, शेते सुखं पत्रिणि पत्रिणीव । सोऽसन्मते तद्भुज एव शेषः, __ कोऽन्यो जराजिह्मगतेर्विशेषः॥४७॥ ९ यत्र त्रिलोकी० यत्र भुजे त्रिलोकी निहितात्मभारा न्यस्त आत्मीयभारो यया सा निहितात्मभारा सुखं शेते खपिति । केव ? 'पत्रिणीव यथा पत्रिणी पक्षिणी पत्रिणि वृक्षे सुखं शेते । तद्भुज १२ एव अस्मन्मते शेषः, अस्मदीयमते जिनशासने तस्य भगवत एव भुजरूपशेषनागाधिराजोऽस्तु जराजिह्मगतेवृद्धसर्पस्य विशेषः अन्यः शेषः कः ? न कोऽपि ॥ ४७ ॥ पाणेस्तलं कल्पपुलाकिपत्रं, तस्यांगुलीः कामदुधास्तनांश्च । चिंतामणीस्तस्य नखानमंस्त, दानावदानावसरेऽर्थिसार्थः ॥४८॥ पाणेस्तलं० अर्थिसार्थों याचकसमूहः तस्य भगवतो दानाचदानावसरे दानमेव अवदानं शुद्धकर्म तस्य अवसरे, एतत् २१ सर्वत्र योज्यते, अर्थिसार्थो दानावदानावसरे तस्य भगवतः पाणेस्तलं कल्पपुलाकिपत्रं कल्पवृक्षसत्कं पत्रं अमंस्त मन्यते २३ १५ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy