SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ जैनकुमारसंभवं [प्रथमः किं कर्तुकामा जनता नेत्रांजलिभिः दृष्टिरूपांजलिभिः प्रभांबु प्रभारूपजलं पिपासुः पातुमिच्छुः ॥ १४ ॥ ३ उपर्युरः प्रौढमधः कटी च, व्यूढान्तराभूत्तलिनं विलग्नम् । किं चिन्मयेऽस्मिन्ननुयोजकानां, ६ त्रिलोकसंस्थाननिदर्शनाय ॥ ४५ ॥ उपर्युरः० अस्मिन् भगवति सर्वत्र योज्यते, उपरि उरो वक्षःस्थलं प्रौढम् , च अन्यत् , अधः कटी व्यूढा विस्तीर्णा । अन्तरा ९ अव्ययशब्दः मध्ये, विलग्नं उदरं तलिनं कृशं अभूत् , किमर्थम् ? चिन्मये ज्ञानमये अस्मिन् भगवति अनुयोजकानां पृच्छकानाम् किं त्रिलोकसंस्थाननिदर्शनाय । कोऽर्थः ज्ञान१२ मयो भगवान् सर्वलक्षणोपेतत्वात् जडानां लोकानाम् वेत्रासन समोऽधस्तादित्यादि त्रैलोक्यसंस्थानं अदर्शयत् तथाऽपि लोका न ज्ञातवन्तः, पश्चात्तेषां स्वीयमेवं रूपं दर्शयामास, भगवान् १५ इति तात्पर्यार्थः ॥ ४५ ॥ व्यूढेऽस्य वक्षस्य वसत्सदा श्री. वत्सः किमु छद्मधिया प्रवेष्टुम् । रुद्धः परं बोधिभटेन मध्य, मध्यूषिषासीद्वहिरंग एव ॥४६॥ व्यूढे०-श्रीवत्सो लाञ्छनं कन्दो वाऽस्य भगवतो व्यूढे २१ विशाले वक्षसि हृदये किमु छद्मधिया कपटबुद्ध्या प्रवेष्टुं सदा अवसत् , परं केवलं बोधिभटेन सम्यक्तत्वपरिज्ञानरूपसुभ२३ टेन रुद्धः सन् बहिरंग एवासीत् , किं कृतवता बोधिभटेन ? १८ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy