SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ m. सर्गः] टीकया सहितम् यस्य स पञ्चेषुः, तस्य पञ्चेषुवीरस्य परे अन्ये पृषत्का बाणाः सन्तीति बहून् बाणान् विना भस्त्रकयुग्मं न स्यात् इति वितर्कः ॥ ४२ ॥ कटीतटीमप्यतिलंध्य धाव ल्लावण्यपूरः प्रससार तस्य । तथा यथा नाऽनिमिषेन्द्रदृष्टि द्रोण्योऽप्यलं पारमवामुमस्य ॥४३॥ कटीतटी० तस्य भगवतो लावण्यपूरः तथा प्रससार, किं कुर्वन् लावण्यपूरः ? कटीतटीमप्यतिलंध्य धावन् । 'लि लौ' ९ (सि० १॥३॥६५) इत्यनेन पदेन तस्य लत्वं जातम् , यथाऽ. निमिषेन्द्रदृष्टिद्रोण्योऽपि अनिमिषा देवास्तेषामिन्द्राः देवेन्द्राः तेषां दृष्टिद्रोण्यो हम्बेडा अथवा अनिमिषेद्रा मत्स्येषु समर्थास्तेषु १२ दृष्टिर्येषां ते अनिमेषेन्द्रदृष्टयो धीवरास्तेषां द्रोण्यो बेडा अपि अस्य लावण्यपूरस्य पारं अवाप्तुं प्राप्तुं नाऽलं न समर्था अभूवन् , प्रायः प्रचुरे पयःपूरे बेडानामप्यसमर्थत्वमिति १५ युक्तम् ॥ ४३ ॥ सनाभितामश्चति नाभिरेका, ___ कूपस्य तस्योदरदेशमध्ये । प्रभाम्बुनेत्रांजलिभिः पिपासुः, कथं वितृष्णा जनताऽस्तु तत्र ॥४४॥ सनाभितामञ्चति० तस्य भगवत उदरदेशमध्ये एको नाभिः २१ कूपस्य सनाभितां सादृश्यं अञ्चति प्राप्नोति, तत्र नाभौ जनता जनसमूहः कथं वितृष्णा तृष्णारहितास्तु अपितु नैव भवतु, २३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy