________________
जैनकुमारसंभवं
[प्रथमः
करे करेणुः० करेणुर्हस्ती गात्रं धुनानोऽपि मोक्षं न आप, किंविशिष्टः करेणुः ? वने चरन् । पुनः कीदृग् ? येन भगवता, ३ करे शुंडादण्डे, खकरेणात्मीयहस्तेन बलेन धृतः, किं कुर्वाणः ! इह भगवति, रोषारुणं चक्षुरादधानो निवेशयन् ॥ अत्र वृत्ते द्वितीयार्थों लिख्यते करे करेणुः करो राजदेयभागस्तत्र करे १२, अणुः सूक्ष्मः अदायकत्वात् योगी खकरेण आत्मीयते.
जसा मत्तो मामी वनेचरन् योगिनां प्रायो वनचारित्वात् , पुनः किंविशिष्टः? बलेन सामर्थ्येन, येन या लक्ष्मीस्तस्या इनः खामी ९कृष्णः तेन धृत आहतो वैष्णवत्वात् केषांचिद्योगिनां, किं कुर्वाणः ! इह भगवति रोषारुणं चक्षुरादधानो जैनानिष्टत्वात् ,
पुनः किं कुर्वाणः ? अश्वकर्म गजकर्म नउलिकर्म रेचकपूरका१२.दिभिर्गात्रं धूनानोपि चालयन्नपि, अत एव कारणात् मोक्षं
मुक्तिं न प्राप, सम्यग्दर्शनं विना न मोक्ष इति जिन
वचनात् ॥ ३७॥ १५ चापल्यकृद्धाल्यमपास्य सोऽथ
खे यौवनं वासयतिस्स देहे।
साध्वौचिती द्युम्नविशेषदाना१६ प्रकाशयामास तदप्यमुष्य ॥ ३८ ॥
चापल्यकृद्धाल० अथोऽनन्तरं स भगवान् खे आत्मीये देहे यौवनं वासयतिस्म, किं कृत्वा ! बाल्यं अपास्य बाल्यभावं २१ परित्यज्य, किंलक्षणं बाल्यम् ! चापल्यकृत् चपलभावं करोतीति चापल्यकृत् । तदपि यौवनम् , अमुष्य भगवतो, द्युम्नं द्रव्यं बलं वा, तस्य विशेषदानात् साधोः सज्जनस्य, औचिती
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org