________________
सर्गः] टीकया सहितम् काञ्चनरुग् सुवर्णवर्णकान्तिः, पुनः कीदृग् भगवान् ? घननीलचूलः, घनो मेघस्तद्वन्नीला कृष्णा, चूला शिखा, यस्य स घननीलचूलः । अर्थवशात् विभक्तिपरिणामः, सुमेरुः कीदृग् १३ काञ्चनरुक् काञ्चनमयः, पुनः कीदृग् ? घननीलचूलः घना दृढा नीलवर्णचूला चूलिका यस्य स, सप्तवर्षापगतः सप्तभिः वर्षेः क्षेत्ररुपगतः तद्यथा भरहं १ हेमवयं २ ति हरिवासं ३ तोह महाविदेहं ४ च । रम्मय ५ हेरण्णवयं ६ एरवयं ७ चेव वासाइं ॥ एतैः सप्तक्षेत्रर्युक्त इत्यर्थः ॥ ३५ ॥
पुरा परारोहपराभवस्या
वश्याः कशाकष्टमदृष्टवन्तः। बबन्धिरेऽनेन बलात् कुरङ्गा
इवोल्लसन्तः शिशुना तुरङ्गाः ॥ ३६॥ १२ पुरा परारोह० अनेन भगवता शिशुना बालेन सता तुरता अश्वा बलात् हठात् बबन्धिरे बध्यन्ते स्म, किंलक्षणा तुरङ्गाः ? पुरा पूर्व परारोहभवस्य अवश्याः अन्यच्चटनस्य पराभवस्य न १५ वश्याः । पुनः किं कृतवन्तः तुरङ्गाः ? कशाकष्टं अदृष्टवन्तः कशायाः तर्जनकस्य कष्टं कदापि न दृष्टं यैस्ते कशाकष्टमदृष्टवन्तः । पुनः किं कुर्वन्तः ? कुरङ्गा इव उल्लसन्तः हरिणा : इव ऊर्ध्वमुत्पतन्तः ॥ ३६॥
करे करेणुः स्वकरेण मत्तो,
वने चरन् येन धृतो बलेन । रोषारुणं चक्षुरिहादधानो,
गानं धुनानोऽपि न मोक्षमाप ॥ ३७॥ २१
२३
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org