________________
२२
जैनकुमारसंभवं [प्रथमः नीत्वाभिमुख्यं सुखतो यमीशं
मुधाभिधानं विबुधैर्न दः ॥ ३४ ॥ ३ परार्थदृष्टिं० विबुधैः देवैः विबुध इति अभिधानं नाम, मुधा न दभ्रे न धृतं, विबुधा देवा विद्वांसो वा कथ्यन्ते । हेतुमाह-किं कृत्वा ? यं ईशं खामिनम् , अथवा यमिनः संयमिनः ६ तेषामीशम् , सुखतः सुखेनैव अभिमुख्यं खसांमुख्यम् , नीत्वा प्राप्य, कैः करणैः कारणभूतैः ? अकाले अप्रस्तावे कलहंसकेकिकोकादिकेलीकरणैः, कलहंसा राजहंसाः, केकिनो ९ मयूराः, कोकाश्चक्रवाकाः, इत्यादिपक्षिणां क्रीडाविधानः, किंविशिष्टं यम् ? परार्थदृष्टिं परस्मिन् अर्थे घटपटादिके दृष्टि
यस्य सः परार्थदृष्टिस्तं परार्थदृष्टिं पक्षे परमार्थदृष्टिम् विबुध१२ त्वस्य एतदेव फलम् , यत् सुखेनैव सर्वकार्यसाधनमिति भावः ॥ ३६॥
क्रोडीकृतः काञ्चनरुग् जनन्या
प्रियङ्गुकान्त्या घननीलचूलः । यः सप्तवर्षोपगतः सुमेरोः
श्रियं ललौ नन्दनवेष्टितस्य ॥ ३५ ॥ १८ क्रोडीकृतः० यो भगवान् सप्तवर्षोपगतः सप्तवर्षसंयुक्तः
सन् सुमेरोर्मेरुपर्वतस्य श्रियं शोभां ललौ गृहीतवान् , किंलक्षणस्य सुमेरोः ? नन्दनवेष्टितस्य नन्दनेन परिवेष्टितस्येत्यर्थः, किंविशिष्टो भगवान् ? प्रियङ्गुकान्त्या, नीलकान्त्या, जनन्या २२ मरुदेव्या, क्रोडीकृत उत्सङ्गे उपवेशितः, पुनः कीदृग् भगवान् ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org