________________
टीकया सहितम्
करे खरीभूय नयस्य तत्त्वं, व्यनक्ति सूरेष्वपरेषु सूरः ॥ ६१ ॥
३ अहो ० अहो इत्याश्चर्ये, सूरः सूर्यः अहर्दिनं प्राप्य शनैः शनैरुच्च पदोपलब्धौ कृतप्रयत्नः सन् करे कणे खरीभूय कठोरो भूत्वा अपरेषु सूरेषु भटेषु नयस्य न्यायस्य तत्त्वं व्यनक्ति ६ प्रकटीकरोति, दिवसे प्राप्ते सति उच्चपदप्रात्यर्थं प्रयत्नः क्रियते करे दंडे खरत्वं क्रियत इति भावः ॥ ६१ ॥ लोकं ललाटंत परश्मिदण्डैरुत्सार्य भानुर्विजनीकृतेषु । सरस्स्ववक्रान्वियदन्तरस्थः,
३९२
कोडे करान्यस्यति पद्मिनीनाम् ॥ ६२ ॥ लोकं० भानुः सूर्यः विजनीकृतेषु निर्जनेषु सरस्सु सरोवरेषु पद्मिनीनां क्रोडे उत्संगे वियदंतरस्थः सन् आकाशमध्ये स्थितः सन् अवक्रान् करान् न्यस्यति व्यापारयति, किं १५ कृत्वा ? ललाटंतपरश्मिदंड: ललाटंतपैः रश्मिदंडे : किरणदंडे : लोकं उत्सार्य परत्र कृत्वा ॥ ६२ ॥
१२
१८
पद्मं श्रियः स बभूव भानोः, करैरधूमाय सूर्यकान्तः । भर्तुः प्रसादे सदृशेऽपि संप
[ एकादशः
फलोपलब्धिः खलु दैववश्या ॥ ६३ ॥
पद्म० भानोः सूर्यस्य करैः किरणैः पद्मं कमलं श्रियः सद्म २२ लक्ष्म्याः गृहं बभूव, सूर्यस्य करैः सूर्यकान्तः अधूमायत धूम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org