________________
सर्ग:]
टीकया सहितम्
३८१
गोत्रं सुष्ठु शोभनवर्णा अक्षराणि यत्र तत् सुवर्ण एवंविधं गोत्रं नाम यस्य स तं वरं पतिं आश्रितासि, नन्दनवनभूमिपक्षे वरं श्रेष्ठं सुवर्णगोत्रं मेलं, त्वं किं कुर्वती ? सुपर्वागमं सुपर्वाणो ३ देवास्तेभ्यः आगम आगमने यस्य सुपर्वागमस्तं एवंविधं गर्भ उद्वहन्ती, पक्षे सुपर्वणां देवानां आगमा यत्र तं एवंविधं गर्भ मध्यं, पुनः किं० त्वं सीमारहितां सुमनसः सन्तस्तत्सं-६ बंधिनीं श्रियं शोभां श्रिता, पक्षे सुमनसः पुष्पाणि तत्संबन्धिनी एतावता नन्दनभूमेः सुमंगलायाः सादृश्यं जातं ॥ ३५॥ रिपुद्विपक्षेपिबलं गभीरा,
न भूरिमायैः परिशीलनीया। गर्भ महानादममुं दधाना, __ परैरधृष्यासि गिरोर्गुहेव ॥ ३६॥ रिपु० हे देवि ! त्वं अमुं गर्भ दधाना सती गिरेगुहेव परैरन्यैरधृष्या अनाकलनीयासि, किंविशिष्टं अमुं ? महानादं महानादः कीर्तिरूपो यस्य स तं, पक्षे महानादं सिंह, पुनः किं-१५ विशिष्टं अमुं? रिपुद्विपक्षेपिबलं, रिपवः शत्रव एव द्विपा गजास्तेषां क्षेपि तिरस्कारि बलं यस्य स तं, किंलक्षणा त्वं ? गुहेव गभीरा गंभीराः, पुनः किंवि० भूरिमायैर्मायाबहुलैः शृगा-१४ लैर्वा न परिशीलनीया, अनाश्रयणीया ॥ ३६ ॥ जित्वा गृहव्योममणिः खभासा,
ध्रुवं तव प्रोल्लसिता सुतेन । . . २१ तत्तेन मध्ये वसताभ्रगेह
यीव धत्से नवमेव तेजः ॥ ३७॥ .. २३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org