SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ ३८२ जैनकुमारसंभवं [ एकादश: जित्वा ० हे देवि ! तव सुतेन स्वभासा आत्मीयकान्त्या गृहव्योममणिः गृहमणिः प्रदीपः व्योममणिः सूर्यः तौ जित्वा ३वं निश्चितं प्रोल्लसिता उल्लसिध्यते, तत् तस्मात् कारणान् तेन सुतेन मध्ये उदरे वसता त्वं अभ्रगेहद्वयीव, अभ्रगेहं अभ्रकगृहं आकाश वा नवतेजो धत्से दधासि ॥ ३७ ॥ सूते त्वया पूर्वदिशात्र भावत्युल्लासिनेत्राम्बुजराजि यत्र । दृष्टमृताघ्राणमुखं वपुर्मे, सरस्यते तद्दिनमर्थयेऽहम् ॥ ३८ ॥ सूते ० अहं तत् दिनं अर्थये प्रार्थयामि, यत्र यस्मिन् दिने पूर्वदिक् सदृशया त्वया अत्र अस्मिन् सुते सूते सति मम १२ वपुः शरीरं सरस्यते सर इवाचरति, किंविशिष्टे ? अत्र भाखति देदीप्यमाने सूर्यसदृशे वा, किंविशिष्टं वपुः ? उल्लासितनेत्रांबुजराजि उल्लासिनी नेत्रांबुजानां सहस्रलोचनत्वात् राजिः १५ श्रेणिर्यत्र तत् उ०, किंविशिष्टः वपुः ? दृष्टामृताघ्राणमुखं दृष्टं अमृतेन आघ्राणस्य तृप्तेः मुखं येन तत् ॥ ३८ ॥ प्राप्ता भुवं खेलयितुं तनूजं, तवोपगुह्याप्तमुदस्त्रिदश्यः । तथा रतिं न स्वरिता रतार्त -: ૩૮ प्रियोपगूढा अपि बोधितारः ॥ ३९ ॥ · प्राप्ता० त्रिदश्यो देवांगनाः खरिताः खः खर्गे इता गताः सत्यः रतार्तप्रियोपगूढा अपि संभोगावसरपीडितदयितालिंगिता २३ अपि तथा रतिसुखं न बोधितारो न ज्ञास्यन्ति, यथा तव तनूजं २१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy