SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ ३८० जैनकुमारसंभवं [एकादशः यथा० हे देवि ! त्वं अस्य भगवतो यथा तथा सत्यं वाचं वाणी मनुष्य जानीहि, किंविशिष्टां वाचं ? वाचंयमानामपि ३ यतीनामपि माननीयां मान्यां, हे देवि! त्वं अवधौ पूणे सति सूनुं पुत्रं प्राप्स्यसि, त्वं नूनं निश्चितं आत्मानं सुकृतैरनूनं पुण्यैः संपूर्ण विद्धि जानीहि ॥ ३३ ॥ दाता कुलीनः सुवचा रुचाढ्यो, रत्नं पुमानेव न चाश्मभेदः। तद्रनगमा भवती निरीक्ष्य, तयाख्ययापनपतेतरां भूः ॥३४॥ दाता० हे देवि! पुमानेव रत्नं वर्तते, न च अश्मभेदः, पाषाणविशेषो रत्नं, किंलक्षणः पुमान् ? दाता विश्वे सर्वेषामर्थि. १२ जनानामाशापूरकत्वात् , उपकारकत्वाच, कुलीनः सुकु लोत्पन्नः, मातृकी जातिः, पैतृकं कुलमिति । सुवचा सत्यवाणी मधुरवचनभाषणपरगुणग्रहणादित्वात् , रुचात्यो रुचा कन्त्य १५ आब्यः समृद्धः, तत् तस्मात् कारणात् भवतीं त्वां रत्नगर्भा निरीक्ष्य दृष्ट्वा भूः पृथ्वी तयाख्यया रत्नगर्भा इति नाम्ना अपनपतेतरां लज्जतेतरां ।। ३४ ॥ १. सुवर्णगोत्रं वरमाश्रितासि, गर्भ सुपर्वागममुद्वहन्ती। श्रियं गता सौमनसीमसीमां, २१ न हीयसे नन्दनभूमिकायाः ॥ ३५ ॥ सुव० हे देवि! त्वं नंदनभूमिकायाः नंदनवनसंबन्धि२२ भूमिकातो न हीयसे न हीना भवसि, किं विशिष्टा त्वं ? सुवर्ण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy